Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 19 of 51 (Verses 30 shown)
अत्र क्रोधाभासे छायादर्शन्यायेन रत्याभासः उपलभ्यते।
एकेनार्कं प्रविततरुषा पाटलेनास्तसंस्थं पश्यत्यक्ष्णा सजलतरलेनापरेणात्मकान्तम्।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ सङ्कीर्णौ रचयति रसौ नर्तकीव प्रगल्भा॥ ११९॥
अत्र नरसिंहजाताविव सिंहनरभागौ नर्तकीचक्रवाक्युपमाने रोषशोकप्रकर्षा— वाभासमानौ मिथः संकीर्येते।
दृष्टे लोचनवन्मनाक्॰॥ १२०॥ (पृ. ५००)
अत्र कस्याश्चित् सखीविख्यातमानसंविधानकाया मानवत्याः प्रियदर्शना— लम्बनविभावादुत्पन्ने प्रकृष्टरतिप्रभवे प्रहर्षस्थायिभावे तत्पार्श्‍वोपसर्पणादिभिरुद्दीपन— विभावैरुद्दीप्यमाने समुत्पद्यमानेषु पुलकादिषु सुखात्मकेषु व्यभिचारिषु नयननि— मीलनाधोमुख्यनीवीस्त्रंसनादिभिरनुभावैः परप्रकर्षारोपणादानन्दरसतामापद्यमाने स्थायिनि प्रबलविरोधिभावान्तरोदयादेतेभ्य एव कारणेभ्यः प्रतिक्षणमपचीयमानयोर्लज्जारोषयोः प्रशमौ समकक्ष्यतया क्षीरनीरवत् सङ्कीर्यमाणौ प्रतीयेते।
रसप्रशमसङ्करो यथा—(उराच. ६.११)
विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन— स्तदौद्धत्यं क्वापि व्रजति, विनयः प्रह्वयति माम्।
झटित्यस्मिन् दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः॥ १२१॥
अत्र वीरैद्धत्यस्वातन्त्र्यरसानामानन्दप्रशमपारवश्यरसैस्तिरस्क्रियमाणानां पट इव नीलादिभिः सितादीनां प्रशमे रामदर्शनप्रभावोद्भवे लवस्य विस्मयातिशयप्रशमजन्मनि वागारम्भानुभावोपमादौ चित्रवर्णवत् सङ्कीर्यमाणः समुपलभ्यते।
अथालङ्कारसङ्करः। स यद्यपि व्यक्ताव्यक्तोभयात्मतया तिलतण्डुलकादिभेदैः प्रधानाङ्गभावसमकक्ष्यताभ्यां पुरस्तादुक्तः, तथापि तेषां गुणादिसङ्करसाधारणत्वात् सम्प्रत्यसाधारणः प्रकार उच्यते।
स षोढा— 'शब्दालङ्कारसङ्करः, अर्थालङ्कारसङ्करः, उभयालङ्कारसङ्करः, शब्दार्थालङ्कारसङ्करः, शब्दोभयालङ्कारसङ्करः, अर्थोभयालङ्कारसङ्कर' इति। तेषु
हंसाली भयतरला सारासरसा सराससारसरासा।
अम्बरतलमारूढा सारासरसा सराससारसरासा॥ १२२॥
अत्र संस्कृतप्राकृतभाषाश्लेषः गतप्रत्यागतं चित्रं पादावृत्ति यमकं वर्णानुप्रासश्चेति चत्वारः शब्दालङ्काराः सङ्कीर्यन्ते।
वासावस्थितताम्रचूडवयसामायामिभिः कूजितै— र्दूरादप्यनुमीयमानवसतिर्ग्रामोऽयमग्रेवणम् ।
यत्रादीप्‍तकुकूलकूटविसरद्ध‍ूम्याघनं घूर्णते सन्ध्यान्तोल्लसदच्छभल्लपटलच्छायाजटालं तमः॥ १२३॥
अत्र ताम्रचूडवयसां कूजितैरित्यनुमानं, यत्र तमो घूर्णत इति ज्ञापकहेतुः, आदीप्‍तकुकूलकूटविसरद्ध‍ूम्याघनमिति सन्ध्यान्तोल्लसदच्छभल्लपटलच्छाया— जटालमिति च कारकहेतुः, जायमानपदार्थस्वरूपाभिधानं जातिरित्यर्थालङ्कारा— श्चत्वारो मिथः सङ्कीर्यन्ते।
ण हु णवरं दीवसिहासारिच्छं चंपएहिं पडिवण्णं।
कज्जलकज्जं पि कअं उअरि भमंतेहिं भमरेहिं॥ १२४॥
(न खलु केवलं दीपशिखासादृश्यं चम्पकैः प्रतिपन्नम्।
कज्जलकार्यमपि कृतमुपरि भ्रमद्भिर्भ्रमरैः॥)
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →