Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 17 of 51 (Verses 30 shown)
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः॥ १०७॥
आपृष्टासि व्यथयसि मनो दुर्बला वासरश्री— रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकी।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनस्तदिह भवतीमस्वतन्त्रस्त्यजामि॥ १०८॥
एवमवस्थापिते गुणरसतदाभासभावानामलङ्कारत्वे षट्प्रकारोऽलङ्कारसङ्कर सम्भवति— गुणसङ्करः, रससङ्करः, अलङ्कारसङ्करः, गुणरससङ्करः, गुणालङ्कारसङ्करः, रसालङ्कारसङ्कर इति।
ननु च गुणानां सङ्करव्यवहारो नोपपद्यते, बहुष्वपि गुणेषु गुणवदित्येव व्यपदेशात्।
नैवम्; त्रिविधा गुणाः शब्दगुणा, अर्थगुणा दोषगुणाश्च।
ते तु प्रत्येकं द्विधा उल्लेखवन्तो निरुल्लेखाश्च। तत्र —
शब्दगुणेषु समाधिमाधुर्यौदार्यगाम्भीर्यादयः सोल्लेखाः।
श्लेषप्रसादसमतासौकुमार्यादयो निरुल्लेखाः।
अर्थगुणेषु श्लेषप्रसादरीतिकान्त्यादयः सोल्लेखाः, अर्थव्यक्तिसौक्ष्म्यगाम्भीर्यसम्मितत्वादयो निरुल्लेखाः।
दोषगुणेषु ग्राम्पपुनरुक्ततापार्थव्यर्थादयः सोल्लेखाः, शब्दहीनसंशयापक्रमविसन्ध्यादयो निरुल्लेखाः।
तत्र सजातीयानां सोल्लेखानामिव विजातीयानां तु निरुल्लेखानामपि सङ्करः प्रवर्तते। तत्र सजातीयानां —
शब्दगुणेषु समाध्यादीनां यथा—
णवपल्लवेसु लोलइ घोलइ विडवेसु वलइ सिहरेसु।
ठवइ थवएसु चलणे वसंतलच्छी असोअस्स॥ १०९॥
(नवपल्लवेषु लोलति घूर्णते विटपेषु वलते शिखरेषु।
स्भगति स्तबकेषु चरणौ वसन्तलक्ष्मीरशोकस्य॥)
अत्र अन्यधर्माणामन्यत्रारोपणं समाधिः, पृथक्पदता माधुर्यं, बन्धविकटत्वमुदारता, ध्वनिमत्ता गाम्भीर्यमिति सजातीयास्सङ्कीर्यन्ते। यतो वसन्तलक्ष्मीरशोकस्येति पदयोः शब्दध्वनिरपि परिस्फुरति; यथा कस्यचिदशोकस्य कामिनोऽङ्गेषु प्रियाङ्गना सविलासं चेष्टते तथास्येयमिति।
अर्थगुणेषु श्लेषादीनां यथा—
जनः पुण्यैर्यायाज्जलधिजलभावं जलमुचः॥११०॥
अत्र संविधानकसुसूत्रता श्लेषः, अर्थस्य प्राकट्यं प्रसादः, उत्पत्त्यादि क्रियाक्रमो रीतिः, दीप्‍तरसत्वं कान्तिः इत्यर्थगुणास्सजातीयास्संकीर्यन्ते।
दोषगुणेषु ग्राम्यादीनां यथा— (काव्याद. ४.१५)
हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी॥ १११॥
अत्र हन्यत इत्यमङ्गलार्थं वरारोहेत्यश्लीलार्थं हन्यते हन्यत इति पुनरुक्तं चारुसर्वाङ्गीत्युक्त्वा वरारेहेति व्यर्थम्, अत एते सजातीयाश्चत्वारोऽपि दोषगुणाः सङ्कीर्यमाणाः कस्यचिदुन्मत्तभाषिणो अनुकम्पाद्यतिशयविवक्षायामभ्यनुज्ञायन्ते। यदाह—
अनुकम्पाद्यतिशयो यदि कश्चिद् विवक्ष्यते।
न दोषः पुनरुक्तादौ प्रत्युतेयमलङ्क्रिया॥ ११२॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →