रसवद् रसपेशलमित्यनेन विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिरिति रत्यादिरूपेणानेकधाऽविर्भवतोऽभिवर्धमानस्य परप्रकर्षगामिनः शृङ्गारस्य मध्यमाम— वस्थामवस्थापयति। यदाह—
रत्यादयोऽर्धशतमेकविवर्जिता हि भावाः पृथग्विधविभावभुवो भवन्ति।
शृङ्गारतत्त्वमभितः परिवारयन्तः सप्तार्चिषं द्युतिचया इव वर्धयन्ति॥
तद्यथा—
अत्रान्तरे किमपि वाग्विभवातिवृत्त— वैचित्र्यमुल्लसितविभ्रममुत्पलाक्ष्याः ।
तद् भूरिसात्त्विकविकारमपास्तधैर्य— माचार्यकं किमपि मान्मथमाविरासीत्॥ ४१॥
(मामा. १.२९)
यथा च— राहोश्चन्द्रकलामिवाननचरीमित्यादि'। (मामा. ५.२८)
'प्रेयः प्रियतराख्यानमि'त्यनेन च समस्तभावमूर्धाभिषिक्तांया रतेः परप्रकर्षा— धिगमाद् भावनापथातिक्रमे भावरूपतामुल्लङ्घ्य प्रेमरूपेण परिणताया उपादानाद् भावान्तराणामपि परप्रकर्षाधिगमे रसरूपेण परिणतिरिति ज्ञापयन्नहङ्कारस्योत्तरां कोटिमुपलक्षयति। यदाह—
आभावनोदयमनन्यधिया जनेन यो भाव्यते मनसि भावनया स भावः।
यो भावनापथमतीत्य विवर्त्तमानः साहंकृते हृदि परं स्वदते रसोऽसौ॥
तद्यथा—
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ४३॥
यथा च—(उ.रा.च. १.३९)
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात् परिणते यत् स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हितं प्राप्यते॥ ४४॥
'युक्तोत्कर्षं च तत्त्रयमि'त्यनेनायुक्तोत्कर्षाणां त्रयाणामप्यूर्जस्विरसवत्प्रेयसां गुणत्वमेव, नालङ्कारत्वमिति ज्ञापयति। तथा ह्यौर्जित्यं भाविकत्वं प्रेय' इति पदैस्त्रयोऽप्येते गुणेषूपदिष्टाः।
कुतः पुनरेतत्, यदेकदोर्जस्विरसवत्प्रेयसामलङ्कारत्वम्, अन्यदा गुणत्वम् ?
उच्यते—(मभा. ५.२.९४)
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥ ४५॥
इति।
यथा— गोमान् देशः, वाचालो वटुः, वग्ग्मी विपश्चित्, क्षीरिणो वृक्षाः, बलवान् मल्लः, दण्डिमती शालेति। तत्रोर्जस्विरसवतोरलङ्कारत्वविवक्षायामतिशायने भूम्नि वा मत्वर्थीयः। गुणत्वविवक्षायां तु प्रशंसानित्ययोगयोरित्यापि द्रष्टव्यम्। नित्यो हि काव्ये गुणयोग इव रसावियोगः। गुणवतो रसवतश्च निश्चितैवास्य प्रशंसा, संसर्गस्तु गुणानामवश्योपादानेन। निन्दा पुनर्दोषहानेन बाधिता नावतरति। प्रेय इत्ययं त्वातिशायनिकः। तदाह 'प्रेयः प्रियतराख्यानम्' इति।
नन्वलङ्कारेषु गुणेषु वा प्रेय इति रूपाभेदात् कथमलङ्कारत्वे तदुत्कर्षप्रतीतिः ?
यथा 'युधिष्ठिरः श्रेष्ठतमः कुरुणाम्' इति। तत्रातिशायनिकान्तरेण तद्गतिरिति चेदिहापि युक्तोत्कर्षं च तत् त्रयमिति वाक्यान्तरेण भविष्यति। न वातिशायनिकाः स्वार्थातिरिक्तं किमपि ब्रुवते, अपि तु प्रकृत्युपात्तमेव प्रकर्षादिकं गमयन्ति, स्वार्थिकेषु तेषां विधानात्।
अथ रसवदिति किं मत्वर्थीयः, उत वतिः ?
किंचातः ?
यदि मत्वर्थीयः, मत्वर्थानुपपत्तेस्तदभावः। रसा हि सुखदुःखावस्थारूपाः। ते च शरीरिणां चैतन्यवताम्, न काव्यस्य, तस्य शब्दार्थरूपतया अचेतनत्वेन भूमनिन्दादीनामभावात्।
अथ वतिः, वत्यर्थानुपपत्तेस्तदभावः। 'तेन तुल्यं क्रिया चेद्वतिः', 'तत्र तस्येव'। न च रसैस्तुल्यं वर्तत इति रसवत्। नापि रस इवात्र रसस्येवास्य किञ्चिदस्तीति।