Skip to main content
Search
Ch. 11 SP 11.234
Full Chapter
SP • Chapter 11: Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

SP 11.234

Canonical Ref: SP 11.234
Sanskrit (Devanāgarī)
यथा— गोमान् देशः, वाचालो वटुः, वग्ग्मी विपश्चित्, क्षीरिणो वृक्षाः, बलवान् मल्लः, दण्डिमती शालेति। तत्रोर्जस्विरसवतोरलङ्कारत्वविवक्षायामतिशायने भूम्‍नि वा मत्वर्थीयः। गुणत्वविवक्षायां तु प्रशंसानित्ययोगयोरित्यापि द्रष्टव्यम्। नित्यो हि काव्ये गुणयोग इव रसावियोगः। गुणवतो रसवतश्च निश्चितैवास्य प्रशंसा, संसर्गस्तु गुणानामवश्योपादानेन। निन्दा पुनर्दोषहानेन बाधिता नावतरति। प्रेय इत्ययं त्वातिशायनिकः। तदाह 'प्रेयः प्रियतराख्यानम्' इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 11.234. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 11.233) All Verses in Chapter 11 Next Verse (SP 11.235) →