यथा—
ध्वस्ताः क्षुद्राः धार्तराष्ट्रास्समस्ताः पीतं रक्तं स्वाद् दुश्शासनस्य।
पूर्णा कृष्णाकेशबन्धप्रतिज्ञा तिष्ठत्येकः कौरवस्योरुभङ्गः॥ ३८३॥
यस्या वृत्तं परार्थं स्यात् प्रधानस्योपकारकम्।
आत्मानुबन्धफलवत् सा पताकेति कीर्तिता॥ ३८४॥
यथा— (उराच. १.३२)
दिष्ट्या सैष महाबाहुरञ्जनानन्दवर्धनः।
यस्य वीर्येण कृतिनो वयं च भुवनानि च॥ ३८५॥
फलं प्रकल्पते यस्याः परार्थायैव केवलम्।
अनुबन्धविहीनां तां प्रकरीति विनिर्दिशेत्॥ ३८६॥
यथा—
सन्ध्याभ्रकपिशस्तत्र विराधो नाम राक्षसः।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः॥ ३८७॥
यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते।
यदर्थश्च समारम्भस्तत् कार्यमिति कीर्तितम्॥ ३८८॥
यथा—
आज्ञा कृता गुरूणां सुहृद्भिरपरिक्षतैरहं युक्तः।
दृष्टो भगवान् साक्षाद्देवी प्राप्ता प्रियं किमतः॥ ३८९॥
एषां त्वेकद्वित्रिलोपे नियम उच्यते—(नाशा. १९.१८)
एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः।
द्वितृतीयचतुर्थानां त्रिलोपे लोप इष्यते॥ ३९०॥
गर्भाङ्कचूलिकाङ्कमुखविष्कम्भकप्रवेशकविधानमित्यनेन संक्षेपाभिधानेनापि कथाशरीरस्याविच्छेदाद् रसाविच्छेदं रसान्तरतिरस्कारं च सूचयति। तत्र—
बीजार्थयुक्तिमान् अङ्को योऽङ्केष्वङ्कः प्रयुज्यते।
स नाटकेषु गर्भाङ्कोऽङ्कावतारश्च कथ्यते॥ ३९१॥
यथा बालरामायणे—(३.१२)
श्रवणैः श्रव्यमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः।
भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम्॥ ३९२॥
अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा।
अर्थोपक्षेपणं यत्र क्रियते सा हि चूलिका॥ ३९३॥
यथा वेणीसंहारे नेपथ्ये—(वेसं. ३.१९)