Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 24 of 51 (Verses 30 shown)
प्रसादि स्वाभिधानं च यमकं कृतिनां मतम्॥ इति।
मा भूदलङ्कारतुल्यकक्षतया अर्थगुणस्य प्राधान्यं, शब्दगुणस्य श्लाघ्यविशेषणयोग उदात्तत्वमित्यादेः किमिति प्राधान्यं न भवति ?
दोषगुणानामतीवोल्लेखवत्त्वेन प्राधान्यात्।
१. वृत्त्यो = रीत्योरिति तु वक्‍तव्यम्।
सा वामनप्रसिद्धिर्लङ्घितनभसो बलिद्विषोऽद्यापि।
मत्यरिणः खलु लोका मर्माण्येवानुबध्‍नन्ति॥ १५६॥
दोषस्य यो गुणीभावः स ततोऽप्यधिकं प्रकाशत इति।
शब्दालङ्कारप्रधानो यथा—(स.क.)
यच्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटापटले हरस्य।
तद् वः पुनातु हिमशैलशिलानिकुञ्जझाङ्कारडम्बरविरावि सुरापगाम्भः॥ १५७॥
अत्रार्थस्य प्राकट्यं प्रसादः, विभवोत्कर्ष उदारता, मृदुस्फुटोन्मिश्र— वर्णानामवैषम्यं समता, बन्धगाढता और्जित्यमित्यादिभ्यो गुणेभ्यः प्राधान्येन शब्दालङ्कारानुप्रासः प्रतीयते।
आश्लेषिणः पृथुतरक्लमपीतशीतमायामिनीर्घनमुदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ १५८॥
अत्र बन्धविकटत्वमुदारता, श्लाघ्यविशेषणयोग उदात्तत्वम्, विभवोत्कर्ष औदार्यम्, दीप्‍तरसत्वं कान्तिरित्यादिभ्यो गुणेभ्यः प्राधान्येन जातिरर्थालङ्कारः प्रतीयते।
अभ्युद्ध‍ृता वसुमती दलितं रिपूरः॰॥ १५९॥
अत्रोक्तिपरिपाकः प्रौढिः, बन्धविकटत्वमुदारता, आशयोत्कर्ष उदात्तत्वम्, अर्थस्य प्राकट्यं प्रसाद इत्यादिभ्यो गुणेभ्यः श्लेषोपसर्जना विशेषोक्तिरुभयालङ्कारः प्राधान्येन प्रतीयते।
रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित्।
एकेनैव प्रयत्नेन निर्वर्त्यन्ते महाकवेः॥ १६०॥
रसभावादिविषयविवक्षाविरहे सति।
अलङ्कारनिबन्धो यः स १कविभ्यो न रोचते॥ १६१॥
(ध्व. ३.४२ सं.) १. 'स' चित्रविषयो मतः' ध्व. ३.४२ संका. २. प्रकृष्यते = ध्वनौ मतः — ध्व. २.१६
रसाक्षिप्‍ततया यस्य बन्धः शक्यक्रियो भवेत्।
अपृथग्यत्‍ननिर्वर्त्यः सोऽलङ्कारः २प्रकृष्यते॥ १६२॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →