Skip to main content
Search
Ch. 11 SP 11.402
Full Chapter
SP • Chapter 11: Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

SP 11.402

Canonical Ref: SP 11.402
Sanskrit (Devanāgarī)
एतेन रूढाहङ्कारता२ रसस्य पूर्वा कोटिः। रत्यादीनामेकोनपञ्चाशतोऽपि विभावानुभावव्यभिचारिसंयोगात् परप्रकर्षाधिगमे रसव्यपदेशार्हता रसस्यैव मध्यमावस्था। 'प्रेयः प्रियतराख्यानम्' इत्युपलक्षणेन यथा रतेः प्रेमरूपेण परिणतिस्तथा भावान्तराणामपि परमपरिपाके प्रेमरूपेण परिणतौ रसैकायनमिति रसस्य परमा काष्ठेति प्रतिष्ठितं भवति। तथा हि — यथोर्जस्विन्यपकर्ताहमिति यत्ते चेतसि भयं, न मे खङ्गः पराङ्मुखेषु कदाचिदपि प्रहर्तुमुत्सहत इति रूढोऽहङ्कारः प्रतीयते, सैषावन्ती मयात्रैव जन्मनि लब्धेति धिक् ते वृथाप्रतिज्ञो मानपरिग्रह इति, उर्वीविजयाद्यकृत्वा कथं पार्थिवो भवेयमिति, न मयेदृशाः शाखिनः क्‍वचिदपि दृष्टा इति, अनेन मे द्रौपदी केशेष्वाकृष्टेति, धन्यो मघवा यस्यैतदायुधमिति, सा मे देवी चितामध्यास्त इति, धिक् कौणपाः शोणितमान्त्रभूषणाः पिबन्तीति, अस्ति मे सन्तोषो मनस इति, यथेयं मे प्रिया तथाहमप्यस्या यतो मदनुकूलमेवैषापि चेष्टत इति, मयि धृतायुधे किमायुधान्तरैरिति सर्वत्रैवाहङ्कारः प्रतीयते।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 11.402. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 11.401) All Verses in Chapter 11 Next Verse (SP 11.403) →