Skip to main content
Search
Ch. 11 SP 11.791
Full Chapter
SP • Chapter 11: Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

SP 11.791

Canonical Ref: SP 11.791
Sanskrit (Devanāgarī)
अत्र ज्ञापकहेत्वलङ्कारे कारकहेतुर्जातिश्चार्थालङ्कारौ, आवन्त्या रीतिः क्रमरचना च शब्दालङ्कारौ, दीपकक्रमश्लेषहेतूक्तिपर्यायाश्च उभयालङ्कारौ(रा) नोल्लिखन्ति। श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणे यावदर्थपदता संमितत्वम्, अनिष्ठुराक्षरप्रायता सौकुमार्यमिति शब्दगुणौ, दीप्‍तरसत्वं कान्तिरर्थप्राकट्यं प्रसाद इत्यर्थगुणो, कालविरोधि निष्क्रियमशरीरमिति दोषगुणौ च नोल्लिखन्ति। स्वनिवासवर्णनोत्कर्षे पतिप्रभावोपवर्णनं निवासिजनवैदग्ध्याभिधानं च विभावौ प्रियतमास्थान (?) प्रेयोरसे सर्वोपकरणप्रागुण्यस्मृतिः विलासाद्यभिनन्दनं चानुभावौ प्रियसुहृत्प्ररोचनोत्साहे घनागमनीपविकासस्मृतिरुत्कण्ठेति च व्यभिचारिणौ नोल्लिखन्ति। विभाव्यमानास्तु सर्व एव प्रतीयन्ते। अन्यच्च —
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 11.791. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 11.790) All Verses in Chapter 11 Next Verse (SP 11.792) →