Skip to main content
Search
Ch. 11 SP 11.794
Full Chapter
SP • Chapter 11: Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

SP 11.794

Canonical Ref: SP 11.794
Sanskrit (Devanāgarī)
अत्रारोहावरोहक्रमो गतिः, श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणयोर्बन्ध— वैकट्यादयः शब्दगुणाः, दीप्‍तरसत्वं कान्तिरर्थप्राकट्यं प्रसाद इत्यर्थगुणयोः रूढाहङ्कारतौर्जित्यमित्यादयोऽर्थगुणाः, कालादिविरोध्यप्रकृतरसत्वमिति दोषगुणयोः निष्क्रियत्वादयो दोषगुणा नोल्लिखन्ति। वाक्यमुद्रानुप्रासशब्दालङ्कारयोः क्रमरचनादयः शब्दालङ्काराः, जातिहेत्वर्थालङ्कारयोः ज्ञापकहेत्वादयोऽर्थालङ्कारा; समासोक्तिरूप— कोभयालङ्कारयोः समुच्चयोक्त्यादय उभयालङ्काराः नोल्लिखन्ति। प्रेयश्शान्तर— सयोर्भयानकादयो रसाः रौद्रश्रृङ्गाराभासयोर्वीराभासादयः आभासा मतिस्मृतिभाव— योर्हर्षादयश्च भावा नोल्लिखन्ति। विभाव्यमानाश्च ते सर्व एव प्रतीयन्ते।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 11.794. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 11.793) All Verses in Chapter 11 Next Verse (SP 11.795) →