मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विघ्नितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
मृगा इति । प्रियालद्रुमा राजादनवृक्षाः । `राजादनः प्रियालः स्यात्` इत्यमरः । तेषां मञ्जर्यस्तासां रजःकणैर्विध्निताः संजातविध्ना दृष्टीनां पाताः प्रसादा येषां ते तथोक्ताः मदोद्धता मृगाः प्रत्यनिलमनिलाभिमुखं मर्मरा मर्मरशब्दवन्तः पत्रमोक्षा जीर्णपर्णपाता यासु ता वनस्थलीर्विचेरुर्वनप्रदेशेषु चरन्ति स्म । `देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्` । इति चरतेः सकर्मकत्वम्
अन्वयः:
प्रियालद्रुममञ्जरीणां रजःकणैः विध्नितदृष्टिपाता मदोद्धताः मृगाः प्रत्यनिलं मर्मरपत्रमोक्षा वनस्थलीः विचेरुः ।
Morphemic Decomposition & Padaccheda
मृगाः
मृग [m]
प्रियालद्रुममञ्जरीणां
प्रियाल [m]
प्रियालद्रुममञ्जरीणां
द्रुम [m]
प्रियालद्रुममञ्जरीणां
मञ्जरी [f]
रजःकणैर्
रजस् [n]
रजःकणैर्
कण [m]
विघ्नितदृष्टिपाताः
विघ्नित [adj]
विघ्नितदृष्टिपाताः
दृष्टि [f]
विघ्नितदृष्टिपाताः
पात [m]
मदोद्धताः
मद [m]
मदोद्धताः
उद्धन् [1. P.]
प्रत्यनिलं
प्रत्यनिलम् [ind]
विचेरुर्
विचर् [1. Ā.]
वनस्थलीर्
वन [n]
वनस्थलीर्
स्थली [f]
मर्मरपत्रमोक्षाः
मर्मर [adj]
मर्मरपत्रमोक्षाः
पत्त्र [mn]
मर्मरपत्रमोक्षाः
मोक्ष [m]