Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 25 of 51 (Verses 30 shown)
श्रृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत्।
स एव वीतरागश्चेन्नीरसं सर्वमेव तत्॥ १६३॥
यया कयाचिच्छुत्या यत्समानमनुभूयते।
तद्रूपादिपदासक्तिस्सानुप्रासा रसावहा॥ १६४॥
नवोऽर्थः सूक्तिरग्राम्या श्रव्यो बन्धः स्फुटा श्रुतिः।
अलौकिकार्थानुक्तिश्च रसमाहर्तुमीशत१॥ १६५॥
तत्र रसालङ्कारसङ्करः षोढा सम्भवति—
'शब्दालङ्कारप्रधानः, अर्थालङ्कारप्रधानः, उभयालङ्कारप्रधानः, भावप्रधानः, आभासप्रधानः रसप्रधानश्चेति'। तेषु —
शब्दालङ्कारप्रधानो यथा—(पृ. ६०५)
कमलमलिरमुञ्चदुत्पलकलिकातरलोलमुत्पलाशङ्कां ते।
कुरुते स्म चक्षुरलिकुलकलिकातरलोलमुत्पलाशङ्कां ते॥ १६६॥
अत्र रतिरसप्रभवं वागारम्भमभिभूय यमकानुप्रासौ शब्दालङ्कारौ प्राधान्येन प्रतीयेते।
अर्थालङ्कारप्रधानो यथा— (सेब. १५.६६)
पुलअं जणेंति दहकंधरस्स राहवसरा सरीरअडंता।
जणअसुआपओहरप्फंस—करजुअलाणिव्वूढा॥ १६७॥
(पुलकं जनयन्ति दशकन्धरस्य राघवशराः शरीरे पतन्तः।
जनकसुतापयोधरस्पर्शमहार्घित—कर—युगल—निर्व्यूढा॥)
अत्र रसाभासमभिभूय हेतुरर्थालङ्कारः प्राधान्येन प्रतीयते।
किं गुरु जहणं अह थणभरो त्ति भाअ-कर-अलग्ग-तुलिआए।
विहिणो खुत्तंगुलि-मग्ग-विब्भमं वहइ से तिवली॥ १६८॥
(किं गुरु जघनमथ स्तनभर इति भागकरतलाग्रतुलितायाः।
विधेः खाताङ्गुलिमार्गविभ्रमं वहत्यस्यास्त्रिवली॥)
१. इह उत्तरार्धम् 'विकटाक्षरबन्धस्तु कृत्स्नमेकत्र दुष्करम्' इति।
अत्र रतिप्रभवान् विस्मयादीनभिभूय पर्यायसंशयहेतूत्प्रेक्षोपमा उभयालङ्काराः प्राधान्येन प्रतीयन्ते।
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →