Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 23 of 51 (Verses 30 shown)
अत्र हेतूत्प्रेक्षाभिधाने त्वयीत्यादौ पदे विष्णोः स्वरूपाध्यासेन तद्‍भावापत्तौ समाधेरिह प्राधान्यं प्रतीयते।
ननु चायमर्थस्य प्राकट्यात् प्रसादोऽर्थगुणः कस्मान्न भवति?
अतस्मिन्नपि तद्‍व्यपदेशेन शब्दशक्तेराधिक्यात्।
ननु च'त्वयि इति, एष इति अस्य इति युष्मदेतदिदमां न कश्चन विष्णुवाची; स कथं वर्णनीये अध्यस्तमर्थमभिदधीत,
सर्वनामत्वेनैषां सर्ववाचित्वात्। सर्वनामानि हि सर्वाभिधायीन्यपि प्रकरणाधि /?/गम्यं विशेषमेव ब्रुवते। स च इह प्राप्‍तश्रीरित्येवमादिभिरभिव्यक्तमेवावगम्यत इति।
अर्थगुणप्रधानो यथा—(दे.प.घटस्तबे १८)
लक्ष्मीवशीकरणचूर्णसहोदराणि— त्वत्पादपङ्कजरजांसि चिरं जयन्ति।
यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि॥ १४८॥
अत्र हेतुसाम्योभयालङ्कृत्यभिधानेऽपि प्राधान्येनार्थप्राकट्यमर्थगुणः प्रतीयते।
दोषगुणप्रधानो यथा—(किराता. ५.३०)
येनापविद्धसलिलस्फुटनागसद्मा—देवासुरैरमृतमम्बुनिधिर्ममन्थे।
व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः॥ १४९॥
अत्र 'व्यावर्तनैरहिपतेरयमाहिताङ्कः' इति ज्ञापकहेतोः 'खं व्यालिखन्निव' इति उत्प्रेक्षावयवाच्च, देवासुरैरिति नित्यवैरविवक्षायां बहुवचनम्, 'अमृतमम्बुनिधिर्ममन्थे' इति 'द्विकर्मकेषु जिप्रभृतीनामुपसंख्यानम्' इति अमृतशब्दाद् द्वितीया इति दोषगुणयोः प्राधान्यं प्रतीयते।
ननु चात्राप्यर्थस्य प्राकट्यात् प्रसादस्य प्राधान्यं कथं न भवति ?
तद्विषयस्य ज्ञापकहेतुनापहृतत्वात् सोऽपि हृर्थालङ्कार एव।
गुणालङ्कारयोश्च तुल्यकक्ष्यतायामलङ्कारः प्रधानं भवति, न गुणः । गुमैर्हि गुणभूतैरेवालङ्काराः प्राय आरभ्यन्ते। तद्यथा—
अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता।
विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते॥ १५०॥
समस्तात्युद्भटपदामोजःकान्तिसमन्विताम्।
गौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः॥ १५१॥
आश्लिष्टश्लथभावां तु पुराणच्छाययाश्रिताम्।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः॥ १५२॥
माधुर्यमभिवाञ्छन्ति/न्तः प्रसादं च सुमेधसः।
समासवन्ति भूयांसि न पदानि प्रयुञ्जते॥ १५३॥
लाटीयावन्त्ययोर्वृत्त्यो१-र्मागध्यां च क्वचित् क्वचित्।
केचिदोजोऽभिधित्सन्तः समस्यन्ति बहून्यपि॥
प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि च।
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →