Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 15 of 51 (Verses 30 shown)
इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति।
किमुत मलयवातोन्मूलितापाण्डुपत्रै— रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ८९॥
अथ यथैकस्यापि भूरुहादेः काण्डस्कन्धशाखाविटपादयः प्रकाराः, पल्लवपत्रपुष्पफलसम्पदादयो विकाराः, एकस्याप्यम्भसः प्रवाहावर्तबुद्‍बुदतरङ्गादयो विवर्ताः, मुक्ताफलफेनलवणकारकादयो विपरिणामाः, एकस्यापि ध्वनेस्तारमध्यमन्द्र— क्रुष्टादयो भेदाः, वर्णपदवाक्यकूजितादयो अवच्छेदाः, एकस्यापि वायोः प्रवहावहपरिवहादयः स्कन्धाः प्राणापानव्यानादयोऽनुबन्धाः तेभ्यस्तेभ्य उपाधिभ्यो जायन्ते, तथैकस्यापि रतिक्रोधशोकादेस्तेभ्यस्तेभ्य उपाधिभ्यस्ते तेऽनुभावा व्यभिचारिणश्चाभ्यन्तरा बाह्याश्च व्यवस्थासम्प्लवाभ्यामुपप्लवन्ते। तत्राभ्यन्तरा व्यभिचारिषु चिन्तौत्सुक्यावेगवितर्कादयः, बाह्याः स्वेदरोमाञ्चाश्रुवैवर्ण्यादयः; अनुभावेष्वाभ्यन्तराः स्मरणेच्छाद्वेषप्रयत्‍नाः, बाह्या मनोवाम्बुद्धिशरीरारम्भाः, त उभये अप्यनुक्रियमाणाः सात्त्विकाङ्गिवाचिकचित्रसामान्याभिनयव्यपदेशं लभन्ते। तेषु
विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्‍बालकदम्बकल्पैः।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥ ९०॥
प्रत्यग्रारिकृताभिमन्युनिधनप्रोद्‍भूततीव्रक्रुधः कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयः।
पार्थस्याकृतशात्रवप्रतिकृतेरन्तः शुचा मुह्यतो हा वत्सेति गिरः स्फुरन्ति, न पुनर्निर्यान्ति कण्ठाद् बहिः॥ ९१॥
मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ् मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ ९२॥
अथ यथेक्षुभ्यो रसः, सर्षपेभ्यस्तैलं धातुभ्यो हिरण्यं, अश्मभ्यो लोहं, दध्‍नो नवनीतं, काष्ठतोऽग्‍निस्तेभ्यस्तेभ्यो यन्त्राग्‍निमन्थसंयोगेभ्यो निष्पतन्ति तथा स्वेभ्यः स्वेभ्यो विभावानुभावव्यभिचारिसंयोगेभ्यो रतिक्रोधशोकादिभ्यस्ते ते रसा निष्पद्यन्ते।
राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम्।
आतङ्काद् विकलं, द्रुतं करुणया, विक्षोभितं विस्मयात्, क्रोधेन ज्वलितं, मुदा विकसितं, चेतः कथं वर्तते॥ ९३॥
अथ यथा लवणाम्लादयः स्वसंयोगिनो मृद्वीकादीनप्यात्मरूपतां नयन्त उपचीयन्ते, तथा रत्यादिजन्मानो रसाः विभावादीनप्यात्मरूपतां नयन्त उपचीयन्ते। यथा—(गास. ४.८९)
कस्स भरिसि त्ति भणिए को मे अत्थि त्ति जप्पमाणाए।
उव्वेगरोइरीए अम्हे वि रुआविआ तीए॥ ९४॥
(कस्य स्मरसीति भणिते को मेऽस्तीति जल्पमानया।
उद्विग्‍नरोदनशीलया वयमपि रोदितास्तया॥)
अथ यथा (वै.सू. २.१.६) सर्पिर्जतुमधूच्छिष्टादीनां पार्थिवानां घनतुहिनकरकादीनामाप्यानां त्रपुसीसरजतादीनां तैजसानामग्‍निसंयोगाद् द्रवता अद्भिस्सामान्यं भवति, तथा विभावानुभावव्यभिचारिणां रससंयोगाद् रसता रसेनैव सामान्यं भवति। यथा—(रघु. ८.७०)
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति।
अकरोत् पृथिवीरुहानपि स्त्रुतशाखारसबाष्पदुर्दिनान्॥ ९५॥
अथ यथा ओषधिरसेभ्यो मधुनिष्पत्तिः, यथा मधुरादिभ्यः षाडवोत्पत्तिः, यथा गुडादिभ्य आसवोत्पत्तिः; तथा तेभ्यस्तेभ्यो रससामान्येभ्यः रसविशेषाभिनिर्वृत्तिः भवति। यथा—(रत्‍ना. ४. १९)
यातो विक्रमबाहुरात्मसमतां प्राप्‍तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्‍त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम्॥ ९६॥
अथ यथैकस्याप्यग्रेर्भौमदिव्यौदर्यादयो जातिभेदाः दाहालोकपाकादयोऽर्थक्रियाः धूमार्चिरङ्गारादयोऽवस्थाः संदृश्यन्ते, तथैकस्यापि रसस्य भावरसतदाभासादयो जातिभेदा उत्कण्ठाभिषङ्गनिर्वृत्यादयोऽर्थक्रिया उत्पादाभिवृद्धिस्थैर्यादयोऽवस्थास्स— मुपलभ्यन्ते। तत्र—
हरस्तु किंचित्परिवृत्तरिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →