Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 11 of 51 (Verses 30 shown)
अत्र चालम्बनविभावभूताद् देवीमरणादुत्पन्ने शोकस्थायिभावे चितानिवेशन— हुताशनज्वालादिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु निर्वेदग्लानिचिन्तास्तम्भादिषु व्यभिचारिषु परप्रकर्षात् करुणरसतामापन्ने स्थायिनि करुणरसवतो नायकस्य यदेतद् यस्याः कुसुमशय्यापीत्यादिवचनं तत् करुणरसादुपजायमानमनुभावरूपं रसवदुच्यते।
जुगुप्साया बीभत्सनिष्पत्तिर्यथा—(काव्याद. २.२८८)
पायं पायं तवारीणां शोणितं पाणिसम्पुटैः।
कौणपास्सह नृत्यन्ति कबन्धैरान्त्रभूषणाः॥ ५६॥
अत्रालम्बनविभावभूतेभ्यः कौणपेभ्यः कस्यचिद्‍राज्ञो विजयशंसिनः पुंस उत्पन्ने जुगुप्सास्थायिभावे शिरश्छेदविगलद्‍रुधिरधारापरिप्लुतप्रनर्तितकबन्धान्त्रभूषणशोणित— पानादिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु भयावेगशङ्कावहित्थादिषु व्यभिचारिषु परां कोटिमधिरूढे बीभत्सरसतामापन्ने स्थायिनि यदेतत् पायंपायमित्यादिवचनं तद् बीभत्सरसादुपजायमानं रसवदुच्यते। एवमेते अष्टावेव रत्यादयो भूमानमापन्नाः शृङ्गारवीरादिव्यपदेशं लभन्ते।
यथा चैते भावेभ्यो रसाः रसेभ्यो भावाः तथा रसेभ्यश्च रसा भवन्तीति भरताचार्यः। तत्र—
शृङ्गाराद्धास्यरसनिष्पत्तिर्यथा— (द्र. अत्रैव १०.२)
स एष भुवनत्रयप्रथितसंयमश्शङ्करो बिभर्ति वपुषाधुना विरहकातरः कामिनीम्।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिघट्टयन् जयति जातहासः स्मरः॥ ५७॥
वीरादद्भुतनिष्पत्तिर्यथा—
सम्प्रत्येव हि गोग्रहे यदभवत् तत् तावदाकर्ण्यता— मेतत् ते हृदयं स्पृशामि यदि वा साक्षी तवैवात्मजः।
एकः पूर्वमुदायुधैस्सुबहुभिर्दृष्टस्ततोऽनन्तरं यावन्तो वयमाहवप्रणयिनः तावन्त एवार्जुनाः॥ ५८॥
रौद्रात् करुणनिष्पत्तिर्यथा—(मवीच. २.२०)
सत्त्वभ्रंशविषादिभिः कथमपि त्रस्तैः क्षणं वेत्रिभि— र्दृष्टो दृष्टिनिपातजिह्मितमुखैरव्याहतप्रक्रमः।
रामान्वेषणतत्परः परिजनैरुन्मुक्तहाहारवं कन्यान्तःपुरमेव हा प्रविशति क्रुद्धो मुनिर्भार्गवः॥ ५९॥
बीभत्साद् भयानकनिष्पत्तिर्यथा—(मवीच.१.३५)
आन्त्रप्रोतबृहत्कपालनलकक्रूरक्‍वणत्कङ्कण— प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम्।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्— व्यालोलस्तनभारभैरववपुर्बन्धोऋतं धावति॥ ६०॥
एतच्‍चायुक्तं, यतोऽमी रत्यादयः परं प्रकर्षमारूढा भावा एव, न रसाः, तथात्वे हर्षादीनामपि रसत्वप्रसङ्गात्। तदाह—
रत्यादयो यदि रसाः स्युरतिप्रकर्षे हर्षादिभिः किमपराद्धमतद्‍‌विभिन्नैः।
न स्थायिनस्त इति चेद् भयहासशोक— क्रोधादयो वद कियच्‍चिरमुलसन्ति॥ ६१॥
न चाष्टावेवेति नियमः, यतः शान्तं प्रेयांसमुद्धतमूर्जस्विनं च केचिद् रसमाचक्षते। तन्मूलाश्च किल नायकानां धीरप्रशान्तधीरललितधीरोद्धतधीरोदात्त— व्यपदेशाः। तेषु —
धीरप्रशान्ताश्रयः शान्तो यथा—
सर्वास्सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम्।
उपानद्‍गूढपादस्य ननु चर्मास्तृतैव भूः॥ ६२॥
धीरललिताश्रयः प्रेयान् यथा—
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ६३॥
धीरोद्धताश्रय उद्धतो यथा—(वेसं. ३.४६)
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →