Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 5 of 51 (Verses 30 shown)
न तावत् प्रधानानाम्, परस्परमनपेक्षत्वेन सम्बन्धाभावात्।
नाप्यप्रधानानाम्, प्रधानापेक्षत्वेन परस्परानपेक्षायामसम्बन्धादेव। तदुक्तं 'असम्बन्धः समत्वात् स्याद्' (पूमी. ३.१.२२) इति। तत्कथमुच्यते तुल्यकक्ष्यतेति? एवं मन्यते — 'यदोत्प्रेक्षोपमादयोऽलङ्कारा विभावानुभावव्यभिचार्यादिनिर्वर्तनपरतया रसादेरङ्गतां प्रतिपद्यन्ते, तदा भवत्येव तुल्यकक्ष्यते' ति। यथा—
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता॥ १७॥
'अत्र लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभ' इति द्वे उत्प्रेक्षे। 'असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता' इत्युपमा च वर्णनीयस्य तमस उद्दीपनविभावभूतस्य समतयैवोत्कर्षापादकत्वेनाङ्गभावमुपगता इति नास्ति लक्षणानुपपत्तिः। ननु च—
१. कारकैः = साधनैः ऐयरः। २. शेषे प्रोक्‍ता पुनः = प्रोक्ता प्रतिपदं — ऐयर।
इववद्‍वायथाशब्दा समाननिभसन्निभाः।
तुल्यसङ्काशनीकाशप्रकाशप्रतिरूपकाः॥ १८॥
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः।
सदृक्सदृशसंवादिसजातीयानुवादिनः॥ १९॥
प्रतिबिम्बप्रतिच्छन्दसरूपसमसप्रभाः ।
सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥ २०॥
(सलोहितसनाभिसपिण्डसब्रह्मचारिणौ ।
सवर्णतुलितौ शब्दौ प्रख्यप्रतिनिधी अपि॥)
कल्पदेशीयदेश्याद्या ये च न्यूनार्थवाचिनः।
समासश्च बहुव्रीहिः शशाङ्कवदनादिषु॥ २१॥
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति।
आक्रोशत्यवजानाति कदर्थयति निन्दति॥ २२॥
विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति।
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति॥ २३॥
तेन सार्धं विगृह्‍णाति तुलां तेनाधिरोहति।
तत्पदव्यां पदं धत्ते तस्य कक्ष्यां विगाहते॥ २४॥
तमन्वेत्यनुबध्‍नाति तच्छीलं तन्निषेधति।
तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः॥ २५॥
तत्कथमुच्यते 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभ' इति द्वे उत्प्रेक्षे, न तूपमे, इति ? इवो हि वाक्यान्तरप्रयुज्यमान उपमानोपमेययोः सादृश्यावद्योतने निरूढशक्तिः, स इहापि तदर्थ एव भवितुमर्हतीति।
नैवम्। उपमानोपमेयशब्दप्रतिपन्नस्य सादृश्यावद्योतनमिवेन क्रियते। न च लिम्पतीत्येवमादौ तमसो नभसो वा द्वितीयमुपमेयमुपमानं वास्ति, येन तयोः सादृश्यावद्योतनाय इवः प्रयुज्यते।
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →