Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 40 of 51 (Verses 30 shown)
सा दमयन्ती—वासवदत्तादिरिहोच्यते चम्पूः॥ ३४४॥
यस्मिन्नितिहासार्थाश्छन्दोभिस्संस्कृतेन बध्यन्ते।
बहवः स पर्वबन्धो भवति महाभारतप्रभृतिः॥ ३४५॥
यत्रेतिहासमखिलं यथास्थितं चैकमेव भाषन्ते।
ऋषयस्य काण्डबन्धो रामायणसन्निभो भवति॥ ३४६॥
यस्मिन्नितिहासार्थान् अपेशलान् पेशलान् कविः कुरुते।
स हयग्रीववधादिप्रबन्ध इव सर्गबन्धः स्यात्॥ ३४७॥
यः सर्गबन्धतुल्यो निबध्यते प्राकृतेन शुद्धेन।
आश्वासकबन्धोऽसौ विज्ञेयः सेतुबन्धादिः॥ ३४८॥
योऽपभ्रंशनिबन्धो मात्राच्छन्दोभिरभिमतोऽल्पधियाम्।
वाच्यस्स सन्धिबन्धश्चतुर्मुखोक्ताब्धिमथनादि॥ ३४९॥
य इह द्विचारिकावाग्ग्राम्यगिरा गीयते गभीरोक्तः।
सोऽवस्कन्धकबन्धोऽभिधीयते भीमकुल्यादि॥ ३५०॥
यत्रार्थश्शास्त्राणां काव्येऽभिनिवेश्यते महाकविभिः।
तद्भट्टिकाव्यमुद्राराक्षसवत् काव्यशास्त्रं स्यात्॥ ३५१॥
शास्त्रं यत्र कवीनां रहस्यमुपकल्पयन्त्यनल्पधियः।
तद्रतिविलासकामन्दकीयवच्छास्त्रकाव्यं तु॥ ३५२॥
कोश इव यः सुभाषितरत्‍नसमूहात्मकः समुद्ध्रियते।
महतः काव्याम्भोधेः स कोश इह सप्‍तशतिकादि॥ ३५३॥
एकप्रघट्टके यस्त्वेककृतो भवति सूक्तिसमुदायः।
सङ्घातस्स निगदितो बृन्दावनमेघदूतादि॥ ३५४॥
यस्यां सन्धीयन्ते मनीषिभिर्विप्रकीर्णवृत्तान्ताः।
सा संहितेति गदिता यदुवंशदिलीपवंशादि॥ ३५५॥
यस्मिन्नशेषविद्यास्थानार्थविभूतयः प्रकाशन्ते।
संहत्य स साहित्यप्रकाशः १एतादृशो भवति॥ ३५६॥
१. एतादृश शृङ्गारप्रकाशसदृशः।
एतस्मिन् हि शृङ्गारप्रकाशे सुप्रकाशमेवाशेषशास्त्रार्थसम्पदुपनिषदाम् अखिलकलाकाव्यौचित्यकल्पनारहस्यानां च सन्निवेशो दृश्यते।
अथैतेषामुभयेषामपि प्रबन्धस्कन्धभेदानामवैशेषिको वैशेषिकश्च गुणालङ्कार— लक्षणयोगो रसावियोगहेतुर्भवति। तत्र
गुणो द्वेधा — शब्दगुणोऽर्थगुणश्च।
अलङ्कारोऽपि शब्दालङ्कारोऽर्थालङ्कारश्च। ताभ्यामुभयगुणालङ्कारा व्याख्यातः(ताः)।
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →