ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताकोऽशनिशब्दमर्दलः । समागतो राजवदुद्धतद्युतिर्घनागमः कामिजनप्रियः प्रिये ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
ससीकरेति ॥ हे प्रिये वल्लभे, घनागमः मेघागमः समागतः। किं भूतः — कामिनश्च ते जनाश्च कामिजनास्तेषां प्रियो वल्लभः । किं कुर्वन् — राजवद् नृपवद् ध्वनिं रवमुद्वहन् । यथा राजा दुन्दुभ्यादिना ध्वनिं कुर्वन् समायाति तथाऽयमपि गजरिवं कुर्वन् समायाति । पुनः किंभूतः — सह शीकरैर्जलकणैः वर्तते इति सशीकर एवंविधो योऽसावम्भोधरो मेघः स एव मत्तः कुञ्जरो हस्ती यत्र सः । पुनः किंभूतः — तडितो विद्युत एव पताका यस्य सः । पुनः किंभूतः — अशनेर्वज्रस्य शब्दसदृशो गर्जितशब्दः स एव मर्दलो यत्र सः । अनेन वर्षर्तोरुत्कर्षः सूचितः ॥
चन्द्रिकाटीका (मणिरामः):
अथ क्रमप्राप्तं वर्षाकालं वर्णयति — ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भोधरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । `सीकरोऽम्बुकणः स्मृताः` इत्यमरः (अ.को.1|3|13)। तडिद् विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । `तडित्सौदामिनी विद्युत` इत्यमरः (अ.को.1|3|11)। अशनि शब्द एव मर्दलः पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागतः आगत इत्यर्थः । वंशस्थं वृत्तं लक्षणं तूक्तम् ॥
Morphemic Decomposition & Padaccheda
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
ससीकर [adj]
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
अम्भोधर [m]
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
मद् [3. P.]
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
कुञ्जर [m]
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
तडित् [f]
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
पताका [f]
ऽशनिशब्दमर्दलः
अशनि [mf]
ऽशनिशब्दमर्दलः
शब्द [m]
ऽशनिशब्दमर्दलः
मर्दल [m]
समागतो
समागम् [6. P.]
राजवद्
राजन् [m]
राजवद्
वत् [ind]
उद्धतद्युतिर्
उद्धन् [1. P.]
उद्धतद्युतिर्
द्युति [f]
घनागमः
घन [mn]
घनागमः
आगम [m]
कामिजनप्रियः
कामिन् [adj]
कामिजनप्रियः
जन [m]
कामिजनप्रियः
प्रिय [adj]
प्रिये
प्रिय [adj]