Skip to main content
Search
Ch. 2 RS 2.18
Full Chapter
RS • Chapter 2: Canto 2

RS 2.18

Canonical Ref: RS 2.18
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः । स्तनैः सहारैर्वदनैः ससीधुभिः स्त्रियो रतिं संजनयन्ति कामिनाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): शिरोरुहैरिति ॥ स्त्रियः कामिनां भोगिनाम् रतिं प्रीतिम् सञ्जनयन्ति उत्पादयन्ति । कैः — शिरोरुहैः । किं भूतैः — श्रोणेस्तटं श्रोणितटं कटीप्रदेशस्तदवलम्बन्ते ये ते श्रोणितटावलम्बिनस्तैः । शिरसि रोहन्त्युत्पद्यन्ते इति शिरोरुहास्तैः । किं भूतैः शिरोरुहैः — सुशोभनो गन्धो येषु तानि सुगन्धीनि तैः कुसुमैः कृत्वा । कृतोऽवतंसो येषु ते कृतावतंसास्तैः । पुनः कैः — सहारैः स्तनैः । हारैः मुक्ताहारैः सह वर्तन्त सहारैः । इदृशैः कुचैः । ससर्षपैः वदनैः सर्षपाकारप्रस्वेदबिन्दुसहितैर्मुखैः । अत्रैते कामिनां प्रीतिकरा भवन्तीत्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): शिरोरुहैरिति ॥ स्त्रियस्तारुण्यः श्रोणितटे कटिपश्चाद्भागेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः । `चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः` इत्यमरः (अ.को.2।6।96) । कृतावतंसैः सुगन्धिभिः कुसुमैः पुष्पैः । `पुष्पं प्रसूनं कुसुमम्` इत्यमरः (अ.को.2।4।17) । संहारैः कुसुममालासहितैः स्तनैः कुचैः ससीधुभिर्मधुसहितैः वदनैराननैः कामिनां विलासिनां रतिं प्रीतिम् सञ्जनयन्ति सम्यक् प्रकारेणोत्पादयन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
शिरोरुहैः
Lemma: शिरोरुह
POS: m
श्रोणितटावलम्बिभिः
Lemma: श्रोणि
POS: mf
श्रोणितटावलम्बिभिः
Lemma: तट
POS: mn
श्रोणितटावलम्बिभिः
Lemma: अवलम्बिन्
POS: adj
कृतावतंसैः
Lemma: कृ
POS: 2. Ā.
कृतावतंसैः
Lemma: अवतंस
POS: mn
कुसुमैः
Lemma: कुसुम
POS: n
सुगन्धिभिः
Lemma: सुगन्धि
POS: adj
स्तनैः
Lemma: स्तन
POS: mn
सहारैर्वदनैः
Lemma: सहार
POS: adj
सहारैर्वदनैः
Lemma: वदन
POS: n
ससीधुभिः
Lemma: ससीधु
POS: adj
स्त्रियो
Lemma: स्त्री
POS: f
रतिं
Lemma: रति
POS: f
संजनयन्ति
Lemma: संजनय्
POS: 10. Ā. • Verb: संजनयन्ति
कामिनाम्
Lemma: कामिन्
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.18. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.17) All Verses in Chapter 2 Next Verse (RS 2.19) →