Skip to main content
Search
Ch. 2 RS 2.17
Full Chapter
RS • Chapter 2: Canto 2

RS 2.17

Canonical Ref: RS 2.17
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
कदम्बसर्जार्जुनकेतकीवनं विकम्पयंस्तत्कुसुमाधिवासितः । ससीकराम्भोधरसङ्गशीतलः समीरणः कं न करोति सोत्सुकम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): कदम्बेति ॥ समीरणो वायुः कं मनुष्यं सोत्सुकं प्रियामिलनोत्कण्ठितं न करोत्यपि तु सर्वं जनं सोत्सुकं करोतीत्यर्थः । किं कुर्वन् — कदम्बश्च सर्जश्चार्जुनश्च नीपश्च केतकी च कदम्बसर्जार्जुननीपकेतक्यस्ता विकम्पयन् विशेषेण धूनयन् । किं भूतः समीरणः — तत् कुसुमाधिवासितः तेषां पूर्वोक्त व्र्क्षाणां कुसुमैः पुष्पैरधिवासितः सुगन्धीकृतः । पुनः कथं भूतः समीरणः — शीकरैर्जलकणैः सह वर्तत इति सशीकरः सशीकरो योऽसावम्भोधरो मेघस्तस्य सङ्गेन शीतलः ॥ चन्द्रिकाटीका (मणिरामः): कदम्बेति ॥ कदम्बो नीपः सर्जोऽश्वकर्णः, अर्जुनः ककुभः, केतक्यश्च तासां वनं समुदायम् । `नीपप्रियककदम्बास्तु हरिप्रिये` इत्यमरः (अ.को.2।4।42) । `साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः` इत्यमरः (अ.को.2।4।44) । `इन्द्रद्रुः ककुभोऽर्जुनः` इत्यमरः (अ.को.2।4।45) । विकम्पयन् तेषां पूर्वोक्त द्रुमाणां कुसुमैः पुष्पैरधिवासितः सञ्जाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्तस्य सङ्गेन संसर्गेण शीतलः शीतः समीरणो मारुतः । `समीरमारुतमरुज्जगत्प्राणसमीरणाः` इत्यमरः (अ.को.1।1।74) । कं पुरुषं सोत्सुकं सोत्कण्ठं न करोति अपि तु सर्वमेवेत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
कदम्बसर्जार्जुनकेतकीवनं
Lemma: कदम्ब
POS: mn
कदम्बसर्जार्जुनकेतकीवनं
Lemma: सर्ज
POS: m
कदम्बसर्जार्जुनकेतकीवनं
Lemma: अर्जुन
POS: m
कदम्बसर्जार्जुनकेतकीवनं
Lemma: केतकी
POS: f
कदम्बसर्जार्जुनकेतकीवनं
Lemma: वन
POS: n
विकम्पयंस्तत्कुसुमाधिवासितः
Lemma: विकम्पय्
POS: 10. P.
विकम्पयंस्तत्कुसुमाधिवासितः
Lemma: तद्
POS: pron
विकम्पयंस्तत्कुसुमाधिवासितः
Lemma: कुसुम
POS: n
विकम्पयंस्तत्कुसुमाधिवासितः
Lemma: अधिवासित
POS: adj
ससीकराम्भोधरसङ्गशीतलः
Lemma: ससीकर
POS: adj
ससीकराम्भोधरसङ्गशीतलः
Lemma: अम्भोधर
POS: m
ससीकराम्भोधरसङ्गशीतलः
Lemma: सङ्ग
POS: m
ससीकराम्भोधरसङ्गशीतलः
Lemma: शीतल
POS: adj
समीरणः
Lemma: समीरण
POS: m
कं
Lemma: क
POS: pron
न
Lemma: न
POS: ind
करोति
Lemma: कृ
POS: 2. Ā. • Verb: करोति
सोत्सुकम्
Lemma: स
POS: ind
सोत्सुकम्
Lemma: उत्सुक
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.17. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.16) All Verses in Chapter 2 Next Verse (RS 2.18) →