Skip to main content
Search
Full Chapter
RS • Chapter 2: Canto 2

RS 2.9

Canonical Ref: RS 2.9
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
विलोलनेत्रोत्पलशोभिताननैर्मृगैः समन्तादुपजातसाध्वसैः । समाचिता सैकतिनी वनस्थली समुत्सुकत्वं प्रकरोति चेतसः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विलोलेति ॥ वनस्थली चेतसोऽर्थत्कामिजनस्य चेतसः समत्सुकत्वम् । रामामिलनोत्कण्ठितं प्रकरोति । किं भूतैः — मृगैः हरिणैः समन्तात् समाचिता व्याप्ता । किं भूतैः — विशेषेण लोलानि चपलानि पुनर्नीलानि यानीक्षणानि नेत्राणि तैः शोभितमाननं येषां तैः । पुनः किं भूतैः — उपजातमुत्पन्नं साध्वसं भयं येषां तैः । किं भूतैः — सैकतिनी सिकतायाः बालुकायाः समूहः सैकतं तेन युक्ता सैकतिनी ॥ चन्द्रिकाटीका (मणिरामः): विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पलान्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्याननानि वदनानि येषां तैस्तथोक्तैः । `वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्` इत्यमरः (अ.को.2|6|90) । उपजातसाध्वसैः सञ्जातभयैर्मृगैः हरिणैः । `मृगे कुरङ्गवातायुहरिणाजिनयोनयः` इत्यमरः (अ.को.2|5|9) । समन्तादिस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंबन्धिनी वनस्थल्यकृतिमारण्यभूमिश्चेतसोऽन्तःकरणस्य समुत्सुकत्वमौत्सुक्यं प्रकरोति प्रकर्षेण जनयतीत्यर्थः॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
विलोलनेत्रोत्पलशोभिताननैर्मृगैः
Lemma: विलोल
POS: adj
विलोलनेत्रोत्पलशोभिताननैर्मृगैः
Lemma: नेत्र
POS: mn
विलोलनेत्रोत्पलशोभिताननैर्मृगैः
Lemma: उत्पल
POS: mn
विलोलनेत्रोत्पलशोभिताननैर्मृगैः
Lemma: शोभय्
POS: 10. Ā.
विलोलनेत्रोत्पलशोभिताननैर्मृगैः
Lemma: आनन
POS: n
विलोलनेत्रोत्पलशोभिताननैर्मृगैः
Lemma: मृग
POS: m
समन्ताद्
Lemma: समन्तात्
POS: ind
उपजातसाध्वसैः
Lemma: उपजन्
POS: 4. P.
उपजातसाध्वसैः
Lemma: साध्वस
POS: n
समाचिता
Lemma: समाचि
POS: 5. Ā.
सैकतिनी
Lemma: सैकतिन्
POS: adj
वनस्थली
Lemma: वन
POS: n
वनस्थली
Lemma: स्थली
POS: f
समुत्सुकत्वं
Lemma: समुत्सुक
POS: adj
समुत्सुकत्वं
Lemma: त्व
POS: n
प्रकरोति
Lemma: प्रकृ
POS: 8. Ā. • Verb: प्रकरोति
चेतसः
Lemma: चेतस्
POS: n
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.9. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.8) All Verses in Chapter 2 Next Verse (RS 2.10) →