Skip to main content
Search
Full Chapter
RS • Chapter 2: Canto 2

RS 2.8

Canonical Ref: RS 2.8
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
तृणोत्करैरुद्गतकोमलाङ्कुरैश्चितानि नीलैर्हरिणीमुखक्षतैः । वनानि वैन्ध्यानि हरन्ति मानसं विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): तृणोत्करैरिति ॥ वनानि काननानि मानसं चित्तं हरन्ति । कामिनामिति गम्यम् । किं भूतानि वनानि — हरिणीमुखकृतैस्तृणोच्चयैश्चितानि । हरिणीनां मुखानि हरिणीमुखानि तैः कृताः खण्डितास्तथा तैः । तृणोच्चयैः तृणसमूहैश्चितानि व्याप्तानि । किं भूतैः तृणोच्चयैः । उद्गता उत्पन्नाः कोमलाः अङ्कुरा येषां ते । पुनः किं भूतैः तृणोत्करैः — नीलैः नीलवर्णैः हरितैरित्यर्थः । किं वनानि वैन्ध्यानि मृगयायोग्यानि । पुनः उद्गता उत्पन्ना ये वंशानां कुड्मलास्तैर्विभूषितानि शोभितानि । तत्रोत्पन्नपल्लवैः द्रुमैः विभूषितानि ॥ चन्द्रिकाटीका (मणिरामः): तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां तैस्तथोक्तैः विचित्रनीलैर्हरिणीमुखैः क्षताः खण्डितास्तैस्तथोक्तैस्तृणोत्कैरुद्गता निर्गताः पल्लवाः किसलयानि येषां तैस्तथोक्तैः । `पल्लवोऽस्त्री किसलयम्` इत्यमरः (अ.को.2।4।14) । द्रुमैर्वृक्षैः कृत्वा विभूषितानि शोभितानि वैन्ध्यानि विन्ध्यसम्बन्धीनि वनानि काननानि । `गहनं काननं वनम्` इत्यमरः (अ.को.2।3।1) । मानसमन्तःकरणं हरन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तृणोत्करैर्
Lemma: तृण
POS: n
तृणोत्करैर्
Lemma: उत्कर
POS: m
उद्गतकोमलाङ्कुरैश्
Lemma: उद्गम्
POS: 6. P.
उद्गतकोमलाङ्कुरैश्
Lemma: कोमल
POS: adj
उद्गतकोमलाङ्कुरैश्
Lemma: अङ्कुर
POS: mn
चितानि
Lemma: चित
POS: adj
नीलैर्
Lemma: नील
POS: adj
हरिणीमुखक्षतैः
Lemma: हरिणी
POS: f
हरिणीमुखक्षतैः
Lemma: मुख
POS: n
हरिणीमुखक्षतैः
Lemma: क्षन्
POS: 8. Ā.
वनानि
Lemma: वन
POS: n
वैन्ध्यानि
Lemma: वैन्ध्य
POS: adj
हरन्ति
Lemma: हृ
POS: 2. P. • Verb: हरन्ति
मानसं
Lemma: मानस
POS: n
विभूषितान्युद्गतपल्लवैर्
Lemma: विभूषय्
POS: 10. P.
विभूषितान्युद्गतपल्लवैर्
Lemma: उद्गम्
POS: 6. P.
विभूषितान्युद्गतपल्लवैर्
Lemma: पल्लव
POS: mn
द्रुमैः
Lemma: द्रुम
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.8. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.7) All Verses in Chapter 2 Next Verse (RS 2.9) →