Skip to main content
Search
Full Chapter
RS • Chapter 2: Canto 2

RS 2.7

Canonical Ref: RS 2.7
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
निपातयन्त्यः परितस्तटद्रुमान्प्रवृद्धवेगैः सलिलैरनिर्मलैः । स्त्रियः सुदुष्टा इव जातिविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): निपातेति ॥ सरितस्तवरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति । नद्यः किं कुर्वत्यः — परितः समन्तात् तटद्रुमान्निपातयन्त्यो जलोद्रेकात्। किं भूताः नद्यः — अनिर्मलैर्मलिनैः सलिलैर्जलैः प्रवृद्धा वेगा यासां ताः । पुनः किं भूता नद्यः का इव — जातविभ्रमा जात उत्पन्नो विभ्रमो यासां तादृश्यः प्रदुष्टाः स्त्रिय इव । यथा प्रदुष्टाः रजोदूषिताः स्त्रियः त्वरितं प्रियं प्रयान्ति तथा नद्योऽपि । अत्राचैतन्यरूपा नदयोऽपि प्रियं समुद्रं यान्ति कामिनीनां पुनः किं वाच्यम् ॥ चन्द्रिकाटीका (मणिरामः): निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाहो उत्साहो वा येषां तैस्तथोक्तैः अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलावण्यजलैर्वा । `सलिलं कमलं जलम्` इत्यमरः (अ.को.1।10।3) । परितः समन्ततस्तटद्रुमांस्तटप्ररूढवृक्षान् पितृमातृकुलजनाभिभावकान् वा निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्यो वा सुदुष्टाः स्त्रियः इव जात उत्पन्नो विश्रमः शृङ्गारादिचेष्टाभेदो यासां तास्तथोक्ताः। जातविभ्रमाः समुत्पन्नभ्रमविशिष्टा नद्यस्त्वरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
निपातयन्त्यः
Lemma: निपातय्
POS: 10. Ā.
परितस्तटद्रुमान्प्रवृद्धवेगैः
Lemma: परितस्
POS: ind
परितस्तटद्रुमान्प्रवृद्धवेगैः
Lemma: तट
POS: mn
परितस्तटद्रुमान्प्रवृद्धवेगैः
Lemma: द्रुम
POS: m
परितस्तटद्रुमान्प्रवृद्धवेगैः
Lemma: प्रवृध्
POS: 1. Ā.
परितस्तटद्रुमान्प्रवृद्धवेगैः
Lemma: वेग
POS: m
सलिलैर्
Lemma: सलिल
POS: n
अनिर्मलैः
Lemma: अनिर्मल
POS: adj
स्त्रियः
Lemma: स्त्री
POS: f
सुदुष्टा
Lemma: सुदुष्ट
POS: adj
इव
Lemma: इव
POS: ind
जातिविभ्रमाः
Lemma: जाति
POS: f
जातिविभ्रमाः
Lemma: विभ्रम
POS: m
प्रयान्ति
Lemma: प्रया
POS: 2. Ā. • Verb: प्रयान्ति
नद्यस्त्वरितं
Lemma: नदी
POS: f
नद्यस्त्वरितं
Lemma: त्वरित
POS: adj
पयोनिधिम्
Lemma: पयोनिधि
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.7. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.6) All Verses in Chapter 2 Next Verse (RS 2.8) →