Skip to main content
Search
Full Chapter
RS • Chapter 2: Canto 2

RS 2.6

Canonical Ref: RS 2.6
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
सदा मनोज्ञं स्वनदुत्सवोत्सुकं विकीर्णविस्तीर्णकलापिशोभितम् । ससंभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सदेति ॥ अद्य वर्षर्तौ बर्हिणां मयूराणां कुलं प्रवृत्तनृत्यं प्रवृत्तं प्रारब्धं नृत्यं येन तदीदृशं वर्तते । कुलं कीदृशम् — सदा मनोज्ञं मनोहरम् । पुनः किं भूतं — सुरतस्य सम्भोगस्योत्सवस्तस्मै उत्सुकमुत्कण्ठितम् । तथा पुनः किं भूतं — विकीर्णा केशास्तद्वदाभा कान्तिर्यस्य स एवंविधो योऽसौ कलापो बर्हः विकीर्णकेशाभकलापस्तेन शोभितम् । `कलापो भूषणे बर्हे` इत्यमरः (अ.को.3।3।136) । पुनः कथं — सविभ्रमं सविलासं यदालिङ्गनं पुनश्चुम्बनं तत्राकुलं सस्पृहम् । अत्र मयूरा अपि सुरतोत्सुका भवन्ति किं पुनः कामिनां वाच्यम् ॥ चन्द्रिकाटीका (मणिरामः): सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं स्वनच्छब्दायमानमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् यद्वा उत्सवे हर्षं उत्सुकमुत्कण्ठितम् विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदालिङ्गनं परिरम्भणं चुम्बनञ्च तत्राकुलं व्याकुलं बर्हिणं कलापिनां कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृशमद्यास्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सदा
Lemma: सदा
POS: ind
मनोज्ञं
Lemma: मनोज्ञ
POS: adj
स्वनदुत्सवोत्सुकं
Lemma: स्वन्
POS: 1. Ā.
स्वनदुत्सवोत्सुकं
Lemma: उत्सव
POS: m
स्वनदुत्सवोत्सुकं
Lemma: उत्सुक
POS: adj
विकीर्णविस्तीर्णकलापिशोभितम्
Lemma: विकृ
POS: 6. Ā.
विकीर्णविस्तीर्णकलापिशोभितम्
Lemma: विस्तृ
POS: 9. P.
विकीर्णविस्तीर्णकलापिशोभितम्
Lemma: कलापिन्
POS: m
विकीर्णविस्तीर्णकलापिशोभितम्
Lemma: शोभय्
POS: 10. Ā.
ससंभ्रमालिङ्गनचुम्बनाकुलं
Lemma: स
POS: ind
ससंभ्रमालिङ्गनचुम्बनाकुलं
Lemma: सम्भ्रम
POS: m
ससंभ्रमालिङ्गनचुम्बनाकुलं
Lemma: आलिङ्गन
POS: fn
ससंभ्रमालिङ्गनचुम्बनाकुलं
Lemma: चुम्बन
POS: n
ससंभ्रमालिङ्गनचुम्बनाकुलं
Lemma: आकुल
POS: adj
प्रवृत्तनृत्यं
Lemma: प्रवृत्
POS: 1. Ā.
प्रवृत्तनृत्यं
Lemma: नृत्य
POS: n
कुलमद्य
Lemma: कुल
POS: n
कुलमद्य
Lemma: अद्य
POS: ind
बर्हिणाम्
Lemma: बर्हिन्
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.6. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.5) All Verses in Chapter 2 Next Verse (RS 2.7) →