Skip to main content
Search
Full Chapter
RS • Chapter 2: Canto 2

RS 2.5

Canonical Ref: RS 2.5
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
प्रभिन्नवैडूर्यनिभैस्तृणाङ्कुरैः समाचिता प्रोत्थितकन्दलीदलैः । विभाति शुक्लेतररत्नभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): प्रभिन्नेति ॥ क्षितिः पृथ्वी । इन्द्रगोपकैर्जीवविशेषैर्विभाति । `इन्द्रगोपस्त्वग्निरजो वैराटस्तितिभोऽग्निकः` इति हैमः । कथं भूताः क्षितिः — तृणानां कक्षाणामङ्कुरास्तैः समाचिता व्याप्ता । कथं भूतैः तृणाङ्कुरैः — प्रभिन्नं खण्डशः कृतं यद्वैडूर्यं प्रभिन्नवैडूर्यं तेन निभास्तुल्यास्तथा तैः । पुनः कथं भूतैः — प्रोत्थितानि निर्गतानि कन्दलीनां दलानि पर्णानि येषु ते तैः । क्षितिः का इव — वराङ्गना इव । वरा श्रेष्ठा चासावङ्गना च वराङ्गना । कथं भूता वराङ्गना — कृष्णाच्छुद्राभवर्णादितराण्यर्थाद्रक्तप्रभृतिवर्णसक्तानि यानि रत्नानि तैर्भूषिता कल्पितालङ्काराः ॥ चन्द्रिकाटीका (मणिरामः): प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः सदृशास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थितानि निर्गतानि यानि कन्दलीदलानि कन्दलीनां दलानि पत्राणि तैः । `द्रोणपर्णी स्निग्धकन्दा कन्दली` इति शब्दार्णवः । इन्द्रगोपकैः कृमिविशेषैश्च समाचिता व्याप्ता क्षितिर्धरित्री । `धराधरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः` इत्यमरः (अ.को.2।1।2) । शुक्लेतरैः कृष्णादिवर्णै रत्नैर्मणिभिर्भूषिता शोभिता वराङ्गनेवोत्तमनायिकेव विभाति शोभते इत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
प्रभिन्नवैडूर्यनिभैस्
Lemma: प्रभिद्
POS: 7. P.
प्रभिन्नवैडूर्यनिभैस्
Lemma: वैडूर्य
POS: n
प्रभिन्नवैडूर्यनिभैस्
Lemma: निभ
POS: adj
तृणाङ्कुरैः
Lemma: तृण
POS: n
तृणाङ्कुरैः
Lemma: अङ्कुर
POS: mn
समाचिता
Lemma: समाचि
POS: 5. Ā.
प्रोत्थितकन्दलीदलैः
Lemma: प्रोत्थित
POS: adj
प्रोत्थितकन्दलीदलैः
Lemma: कन्दली
POS: f
प्रोत्थितकन्दलीदलैः
Lemma: दल
POS: mn
विभाति
Lemma: विभा
POS: 2. P. • Verb: विभाति
शुक्लेतररत्नभूषिता
Lemma: शुक्लेतर
POS: adj
शुक्लेतररत्नभूषिता
Lemma: रत्न
POS: mn
शुक्लेतररत्नभूषिता
Lemma: भूषय्
POS: 10. Ā.
वराङ्गनेव
Lemma: वर
POS: adj
वराङ्गनेव
Lemma: अङ्गना
POS: f
वराङ्गनेव
Lemma: इव
POS: ind
क्षितिरिन्द्रगोपकैः
Lemma: क्षिति
POS: f
क्षितिरिन्द्रगोपकैः
Lemma: इन्द्रगोपक
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.5. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.4) All Verses in Chapter 2 Next Verse (RS 2.6) →