Skip to main content
Search
Full Chapter
RS • Chapter 2: Canto 2

RS 2.4

Canonical Ref: RS 2.4
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
बलाहकाश्चाशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् । सुतीक्ष्णधारापतनोग्रसायकैस्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): बलाहका इति ॥ बलाहकाः मेघा युगपत् समकालं प्रवासिनां पथिकजनानाम् चेतस्तुदन्ति पीडयन्ति । किं भूताः बलाहकाः — अशनिर्वज्र तस्य शब्दवच्छब्दो यस्येदृशो गर्जितशब्दस्तेन भीषणाः भयकारकाः। किं कुर्वन्तः — सुरेन्द्रचापम् इन्द्रधनुर्दधतः । किं तडिद्विद्युदेव गुणः प्रत्यञ्या यस्य तम् । पुनः किं भूताः वलाहकाः सुतीक्ष्णानि यानि धारापतनानि नान्येवोग्राः सायका यत्र ते ॥ चन्द्रिकाटीका (मणिरामः): बलाहका इति ॥ अशनिशब्दमर्दला अशनिर्वज्रस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । `मौर्वी ज्या शिञ्जिनी गुणः` इत्यमरः (अ.को.2।8।84) । सुरेन्द्रचापमिन्द्रधनुः । `धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्` इत्यमरः (अ.को.2।8।83) । दधतो धारयन्तो बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधाराणां पतनान्येवोग्रसायकास्तीक्ष्णबाणास्तैः कृत्वा प्रवासिनां प्रोषितानां चेतोऽन्तःकरणं प्रसभमत्यन्तं तुदन्ति व्यथयन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
बलाहकाश्चाशनिशब्दमर्दलाः
Lemma: बलाहक
POS: m
बलाहकाश्चाशनिशब्दमर्दलाः
Lemma: च
POS: ind
बलाहकाश्चाशनिशब्दमर्दलाः
Lemma: अशनि
POS: mf
बलाहकाश्चाशनिशब्दमर्दलाः
Lemma: शब्द
POS: m
बलाहकाश्चाशनिशब्दमर्दलाः
Lemma: मर्दल
POS: m
सुरेन्द्रचापं
Lemma: सुरेन्द्र
POS: m
सुरेन्द्रचापं
Lemma: चाप
POS: mn
दधतस्तडिद्गुणम्
Lemma: धा
POS: 1. P.
दधतस्तडिद्गुणम्
Lemma: तडित्
POS: f
दधतस्तडिद्गुणम्
Lemma: गुण
POS: mn
सुतीक्ष्णधारापतनोग्रसायकैस्
Lemma: सु
POS: ind
सुतीक्ष्णधारापतनोग्रसायकैस्
Lemma: तीक्ष्ण
POS: adj
सुतीक्ष्णधारापतनोग्रसायकैस्
Lemma: धारा
POS: mf
सुतीक्ष्णधारापतनोग्रसायकैस्
Lemma: पतन
POS: n
सुतीक्ष्णधारापतनोग्रसायकैस्
Lemma: उग्र
POS: adj
सुतीक्ष्णधारापतनोग्रसायकैस्
Lemma: सायक
POS: m
तुदन्ति
Lemma: तुद्
POS: 7. Ā. • Verb: तुदन्ति
चेतः
Lemma: चेतस्
POS: n
प्रसभं
Lemma: प्रसभम्
POS: ind
प्रवासिनाम्
Lemma: प्रवासिन्
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.4. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.3) All Verses in Chapter 2 Next Verse (RS 2.5) →