Skip to main content
Search
Full Chapter
RS • Chapter 2: Canto 2

RS 2.3

Canonical Ref: RS 2.3
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास्तोयभरावलम्बिनः । प्रयान्ति मन्दं बहुधारवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): तृषेति ॥ बलाहका मेघाः मन्दं प्रयान्ति मन्दं मन्दं गच्छन्तीत्यर्थः । किं भूतैः — तृषाकुलैश्चातकपक्षिणां कुलैः समूहैः प्रयाचिताः तृषया आकुला व्याप्तास्तैः । चातकाः पपीहाः इत्याख्या पक्षिणश्च तेषां कुलैः समूहैः याचिता: जलपानार्थमभ्यर्थिताः । `कुलं तेषां सजातीयानाम्` इति हैमः । पुनः किं भूताः — तोयभरेण जलभारेणावलम्बन्ते नम्रा भवन्तीति तोयभरावलम्बिनः ! पुनः कथंभूताः — बलाहकाः बहु प्रचुरं वारि वर्षन्टीत्येवं शीलाः । पुनः कथं भूताः — श्रोत्रयोः कर्णयोः मनोहरोऽभिरामः स्वनः शब्दो येषां ते ॥ चन्द्रिकाटीका (मणिरामः): तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणावलम्बन्त इति तथोक्ताः । बह्व्यो धारा यस्यां क्रियायां यथा भवन्ति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाहकाः मेघाः । `अभ्रं मेघो वारिवाहः स्तनयित्युर्बलाहकः` इत्यमरः (अ.को.1।3।8)। मन्दं प्रयान्ति गगने सञ्चरन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तृषाकुलैश्चातकपक्षिणां
Lemma: तृषा
POS: f
तृषाकुलैश्चातकपक्षिणां
Lemma: आकुल
POS: adj
तृषाकुलैश्चातकपक्षिणां
Lemma: चातक
POS: m
तृषाकुलैश्चातकपक्षिणां
Lemma: पक्षिन्
POS: m
कुलैः
Lemma: कुल
POS: n
प्रयाचितास्
Lemma: प्रयाच्
POS: 1. Ā.
तोयभरावलम्बिनः
Lemma: तोय
POS: n
तोयभरावलम्बिनः
Lemma: भर
POS: m
तोयभरावलम्बिनः
Lemma: अवलम्बिन्
POS: adj
प्रयान्ति
Lemma: प्रया
POS: 2. Ā. • Verb: प्रयान्ति
मन्दं
Lemma: मन्द
POS: adj
बहुधारवर्षिणो
Lemma: बहु
POS: adj
बहुधारवर्षिणो
Lemma: धार
POS: mn
बहुधारवर्षिणो
Lemma: वर्षिन्
POS: adj
बलाहकाः
Lemma: बलाहक
POS: m
श्रोत्रमनोहरस्वनाः
Lemma: श्रोत्र
POS: n
श्रोत्रमनोहरस्वनाः
Lemma: मनोहर
POS: adj
श्रोत्रमनोहरस्वनाः
Lemma: स्वन
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.3. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.2) All Verses in Chapter 2 Next Verse (RS 2.4) →