Skip to main content
Search
Ch. 2 RS 2.11
Full Chapter
RS • Chapter 2: Canto 2

RS 2.11

Canonical Ref: RS 2.11
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
पयोधरैर्भीमगभीरनिस्वनैस्तडिद्भिरुद्वेजितचेतसो भृशम् । कृतापराधानपि योषितः प्रियान्परिष्वजन्ते शयने निरन्तरम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): पयोधरैरिति ॥ योषितः स्त्रियः कृतापराधान् । कृता अपराधाः अन्ययोषिद्गमनादिरूपा यैस्ते । इदृशानपि प्रियान् भर्तॄन् शयने शय्यायां निरन्तरमनवरतम् परिष्वजन्ते आलिङ्गन्ति । कथं भूता योषितः — पयोधरैर्मेघैः भृशमुद्वेजितवेतसः उद्वेजितं पीडितं चेतो यासां ताः । किं भूतैः पयोधरैः — भीमो भयकृत् पुनर्गभीरश्च निःस्वनः शब्दो येषां तैः । किं कुर्वद्भिः — स्वनद्भिः शब्दायमानैः । अनेनात्र कामोद्रेकः सूचितः ॥ चन्द्रिकाटीका (मणिरामः): पयोधरैरिति ॥ भीमो भयानको गभीरो गम्भीरो निःस्वनो निर्घोषो येषां तैस्तथोक्तैः । `स्वाननिर्घोषनिह्रादनादनिस्वाननिस्वनाः` इत्यमरः (अ.को.1।6।25) । पयोधरैर्मेघैस्तडिद्भिर्विद्युद्भिश्च भृशमत्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता योषितो नार्यः । `स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः` इत्यमरः (अ.को.2।6।2) । कृतोऽपराधोऽन्यायः परवनितानिरीक्षणादिर्यैस्तांस्तथोक्तानपि प्रियान् शयने निरन्तरं निरवकाशं यथा भवति तथा परिष्वजन्ते आलिङ्गन्ते इत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
पयोधरैर्
Lemma: पयोधर
POS: m
भीमगभीरनिस्वनैस्
Lemma: भीम
POS: adj
भीमगभीरनिस्वनैस्
Lemma: गभीर
POS: adj
भीमगभीरनिस्वनैस्
Lemma: निस्वन
POS: m
तडिद्भिर्
Lemma: तडित्
POS: f
उद्वेजितचेतसो
Lemma: उद्वेजय्
POS: 10. Ā.
उद्वेजितचेतसो
Lemma: चेतस्
POS: n
भृशम्
Lemma: भृशम्
POS: ind
कृतापराधानपि
Lemma: कृ
POS: 2. Ā.
कृतापराधानपि
Lemma: अपराध
POS: m
कृतापराधानपि
Lemma: अपि
POS: ind
योषितः
Lemma: योषित्
POS: f
प्रियान्
Lemma: प्रिय
POS: adj
परिष्वजन्ते
Lemma: परिष्वज्
POS: 1. P. • Verb: परिष्वजन्ते
शयने
Lemma: शयन
POS: n
निरन्तरम्
Lemma: निरन्तर
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.11. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.10) All Verses in Chapter 2 Next Verse (RS 2.12) →