Skip to main content
Search
Ch. 2 RS 2.12
Full Chapter
RS • Chapter 2: Canto 2

RS 2.12

Canonical Ref: RS 2.12
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
विलोचनेन्दीवरवारिबिन्दुभिर्निषिक्तबिम्बाधरचारुपल्लवाः । निरस्तमाल्याभरणानुलेपनाः स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विलोचनेति ॥ प्रवासिनां पथिकजनानां प्रमदाः निराशाः स्थिताः `वर्षास्ववश्यं वयमागमिष्याम` इत्यवधिलोपान्निराशाः स्थिताः इत्यर्थः । किं भूताः प्रमदाः — विलोचनान्येवेन्दीवराणि नीलकमलानि तत्र ये वारिबिन्दवस्तैः अर्थादश्रुभिर्निषिक्ताः बिम्बाकारा अधरा एव चारूपल्लवा यासां ताः । निरस्तानि माल्यानि पुष्पदामानि आभरणानि चानुलेपनानि चन्दनादीनि याभिस्ताः `माल्यं पुष्पे तु पुष्पदाम्नि` इति वैजयन्ती ॥ चन्द्रिकाटीका (मणिरामः): विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नीलोतपलानीवेति विलोचनेन्दीवराणि तेषां ये वारिबिन्दवो जलबिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बिम्बसदृशाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बपदेनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । निरस्तानि त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दनादीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्रमदाः स्त्रियो निजरमणसमागमसङ्गजनितसुखे निराशा आशारहिताः स्थिता आसन्नित्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
विलोचनेन्दीवरवारिबिन्दुभिर्
Lemma: विलोचन
POS: n
विलोचनेन्दीवरवारिबिन्दुभिर्
Lemma: इन्दीवर
POS: mn
विलोचनेन्दीवरवारिबिन्दुभिर्
Lemma: वारि
POS: n
विलोचनेन्दीवरवारिबिन्दुभिर्
Lemma: बिन्दु
POS: mn
निषिक्तबिम्बाधरचारुपल्लवाः
Lemma: निषिच्
POS: 6. Ā.
निषिक्तबिम्बाधरचारुपल्लवाः
Lemma: बिम्ब
POS: mn
निषिक्तबिम्बाधरचारुपल्लवाः
Lemma: अधर
POS: m
निषिक्तबिम्बाधरचारुपल्लवाः
Lemma: चारु
POS: adj
निषिक्तबिम्बाधरचारुपल्लवाः
Lemma: पल्लव
POS: mn
निरस्तमाल्याभरणानुलेपनाः
Lemma: निरस्
POS: 4. Ā.
निरस्तमाल्याभरणानुलेपनाः
Lemma: माल्य
POS: n
निरस्तमाल्याभरणानुलेपनाः
Lemma: आभरण
POS: n
निरस्तमाल्याभरणानुलेपनाः
Lemma: अनुलेपन
POS: n
स्थिता
Lemma: स्था
POS: 1. Ā.
निराशाः
Lemma: निराश
POS: adj
प्रमदाः
Lemma: प्रमदा
POS: f
प्रवासिनाम्
Lemma: प्रवासिन्
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.12. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.11) All Verses in Chapter 2 Next Verse (RS 2.13) →