Skip to main content
Search
Ch. 2 RS 2.14
Full Chapter
RS • Chapter 2: Canto 2

RS 2.14

Canonical Ref: RS 2.14
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
विपत्त्रपुष्पां नलिनीं समुत्सुका विहाय भृङ्गाः श्रुतिहारिनिस्वनाः । पतन्ति मूढाः शिखिनां प्रनृत्यतां कलापचक्रेषु नवोत्पलाशया ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विपन्नेति ॥ च पुनः भृङ्गाः भ्रमराः । शिखिनां मयुराणाम् । कलाप चक्रेषु बहिर्मण्डलेषु पतन्ति । कथं भूतः — नृत्यतां नृत्यं कुर्वताम् । किं कृत्वा — नलिनीं कमलिनीं विहाय त्यक्त्वा । कया — नवोत्पलाशया नवञ्च तदुत्पलञ्च नवोत्पलं तस्याशा नवोत्पलाशा तया । किं भूताः नलिनीम् — विपन्नानि नष्टानि पुष्पाणि कुसुमानि यस्याः सा विपन्नपुष्पा तां विपन्नपुष्पाम् । किं भूताः भृङ्गाः — समुत्सुकाः उत्कण्ठायुक्ताः । पुनः कथं भूताः — श्रुतिहारिनिःस्वनाः श्रुत्योः कर्णयोर्हारि मनोहरो निःस्वनो शब्दो येषां ते । पुनः कथं भूतः — मूढा उद्विग्नचित्ताः । अत्र नृत्यन्मयुराणां कलापाः प्रत्यग्रपद्मवन्मनोहरा भवन्तीत्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी मनाह्लादकर इति यावत् । निःस्वनः शब्दो येषां ते तथोक्ता मूढा इदं न त्विदं तन्नलिनमिति विचाररहिता भृङ्गा भ्रमराः । `द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः` इत्यमरः (अ.को.2।5।32)। विगतानि पत्राणि दलानि यस्य तादृशं पुष्पं यस्या सा तां तथोक्तां नलिनीम् विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वताम् शिखिनां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकुवलयस्याशया । भ्रमणेति भावः । पतन्ति निपतन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
विपत्त्रपुष्पां
Lemma: विपत्त्र
POS: adj
विपत्त्रपुष्पां
Lemma: पुष्प
POS: n
नलिनीं
Lemma: नलिनी
POS: f
समुत्सुका
Lemma: समुत्सुक
POS: adj
विहाय
Lemma: विहा
POS: 3. Ā.
भृङ्गाः
Lemma: भृङ्ग
POS: m
श्रुतिहारिनिस्वनाः
Lemma: श्रुति
POS: f
श्रुतिहारिनिस्वनाः
Lemma: हारिन्
POS: adj
श्रुतिहारिनिस्वनाः
Lemma: निस्वन
POS: m
पतन्ति
Lemma: पत्
POS: 1. Ā. • Verb: पतन्ति
मूढाः
Lemma: मुह्
POS: 4. Ā.
शिखिनां
Lemma: शिखिन्
POS: m
प्रनृत्यतां
Lemma: प्रनृत्
POS: 4. P.
कलापचक्रेषु
Lemma: कलाप
POS: mn
कलापचक्रेषु
Lemma: चक्र
POS: n
नवोत्पलाशया
Lemma: नव
POS: adj
नवोत्पलाशया
Lemma: उत्पल
POS: mn
नवोत्पलाशया
Lemma: आशा
POS: f
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.14. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.13) All Verses in Chapter 2 Next Verse (RS 2.15) →