Skip to main content
Search
Ch. 2 RS 2.15
Full Chapter
RS • Chapter 2: Canto 2

RS 2.15

Canonical Ref: RS 2.15
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
वनद्विपानां नववारिदस्वनैर्मदान्वितानां ध्वनतां मुहुर्मुहुः । कपोलदेशा विमलोत्पलप्रभाः सभृङ्गयूथैर्मदवारिभिश्चिताः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): वनद्विपानामिति ॥ वनद्विपानां काननहस्तिनाम् । कपोलदेशाः गल्लोपरिभागाः । नवतोयदस्वनैः नवाः प्रत्यग्राश्च तोयदा मेघाश्च नवतोयदास्तेषां स्वना गर्जितशब्दास्तथा तैः कृत्वा मदवारिभिः मदा एव वारीणि जलानि तैः श्रिताः क्षरन्मदा जाता इत्यर्थः । किं भूतानां — मदान्वितानां मदावस्थायुक्तानाम् । मुहुर्मुहुर्वारं वारं ध्वनतां बृंहताम् । शब्दं कुर्वतामित्यर्थः । कथं भूताः कपोलदेशाः — विमलञ्च तदुत्पलं च विमलोत्पलं तद्वत्प्रभा कान्तिर्येषां ते । कथं भूतैः — भृङ्गयुथैः सहितानि सभृङयूथानि तैः भ्रमरनिकरसहितैः ॥ चन्द्रिकाटीका (मणिरामः): वनद्विपानामिति ॥ नवाः सद्यः सम्भृतसलिला ये वारिदा जलदास्तेषां स्वनैर्निनादैः । `शब्दे निनादनिनदध्वनिध्वानरवस्वनाः` इत्यमरः (अ.को.1।6।24) । कृत्वा मदान्वितानाम् अपवारणगर्जनशङ्कयेति भावः । अत एव मुहुर्मुहुर्वारं वारं ध्वनतां गर्जतां वनद्विपानामारण्यगजानाम् `द्विपः मतङ्गजो गजो नागः` इत्यमरः (अ.को.2।8।34) । विमलानि निर्मलानि यान्युत्पलानि कुवलयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः। `स्यादुत्पलं कुवलयम्` इत्यमरः (अ.को.1।10।37) । कपोलदेशा गण्डप्रदेशाः सभृङ्गयूथैर्भ्रमरसमुदायसहितैर्मेदवारिभिर्दानोदकैश्चिताः व्याप्ता इत्यर्थः । सौगन्ध्यातिशयाद्भ्रमरैरप्यागत्य तत्र स्थितमिति भावः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
वनद्विपानां
Lemma: वन
POS: n
वनद्विपानां
Lemma: द्विप
POS: m
नववारिदस्वनैर्
Lemma: नव
POS: adj
नववारिदस्वनैर्
Lemma: वारिद
POS: m
नववारिदस्वनैर्
Lemma: स्वन
POS: m
मदान्वितानां
Lemma: मद
POS: m
मदान्वितानां
Lemma: अन्वित
POS: adj
ध्वनतां
Lemma: ध्वन्
POS: 1. Ā.
मुहुर्मुहुः
Lemma: मुहुर्
POS: ind
मुहुर्मुहुः
Lemma: मुहुर्
POS: ind
कपोलदेशा
Lemma: कपोल
POS: mn
कपोलदेशा
Lemma: देश
POS: m
विमलोत्पलप्रभाः
Lemma: विमल
POS: adj
विमलोत्पलप्रभाः
Lemma: उत्पल
POS: mn
विमलोत्पलप्रभाः
Lemma: प्रभा
POS: f
सभृङ्गयूथैर्
Lemma: सभृङ्ग
POS: adj
सभृङ्गयूथैर्
Lemma: यूथ
POS: mn
मदवारिभिश्
Lemma: मद
POS: m
मदवारिभिश्
Lemma: वारि
POS: n
चिताः
Lemma: चित
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.15. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.14) All Verses in Chapter 2 Next Verse (RS 2.16) →