Skip to main content
Search
KS
Kumārasambhavam • Chapter 06

Canto 6

षष्ठः सर्गः

Canto 6 of Kumārasambhavam.

Total: 95 Verses • Citations: KS 6.1–95 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
KS 6.61 अनुष्टुप्
कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते । शङ्के मत्पावनायैव प्रस्थानं भवतामिह ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कर्तव्यमिति । कर्तव्यं कार्यं वो युष्माकं न पश्यामि । निःस्पृहत्वादिति भावः । अथ स्याच्चेद्विद्येत यदि, किं नोपपद्यते किं नाम न संभवति । सर्वं सुलभमेवेत्यर्थः । अथवा किमत्र प्रयोजनचिन्तयेत्याह-- मत्पावनाय मच्छोधनायैव भवतामिह विषये प्रस्थानम् । इमं देशमुद्दिश्येदं प्रयाणमित्यर्थः । मन्ये तर्कयामि अन्वयः: कर्तव्यं वो न पश्यामि, अथ स्यात् चेत् किं न उपपद्यते ? मत्पावनाय एव भवताम् इह प्रस्थानं मन्ये ।
KS 6.62 अनुष्टुप्
तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तथापीति । तथापि भवतां निःस्पृहत्वेपि कस्मिंश्चित् कर्मणीति शेषः । आज्ञामिदं कुर्वित्यादेशं तावदिदानीं मे मह्यं दातुमर्हथ । मदनुग्रहबुद्ध्येति भावः । हि यस्मात्किंकरा भृत्याः । प्रभवन्तीति प्रभविष्णुषु प्रभुषु विषये । `भुवश्च` (पा.3|2|138) इतीष्णुच्प्रत्ययः । विशेषेण नियोगो विनियोगः । प्रेषणमेव प्रसादोऽनुग्रहो येषां ते तथोक्ताः । अन्यथा स्वस्वामिभावो निष्फल इति भावः अन्वयः: तथाऽपि कस्मिंस्चित् आज्ञाम् इदानीं मे दातुम् अर्हथ । हि किङ्कराः प्रभविष्णुषु विनियोगप्रसादाः ।
KS 6.63 अनुष्टुप्
एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एत इति । किं बहुना एते वयममी दारा इयं कुलस्य जीवितं प्राणभृतां परमप्रेमास्पदमित्यर्थः । कन्या । अत्रैषां मध्ये येन जनेन वः कार्यं प्रयोजनं ब्रूत । तदिति शेषः । येन तदपि दोयत इति भावः । रत्नहिरण्यादिकं तु न मे गण्यमित्याह-बाह्यवस्तुकनकरत्नादिष्वनास्थानादरः । प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । अदेयं न किंचिदस्तीति भावः अन्वयः: एते वयम्, अमी दाराः, कुलजीवितम् इयं कन्या । अत्र येन वः कार्यं, ब्रूत । बाह्यवस्तुषु अनास्था ।
KS 6.64 अनुष्टुप्
इत्यूचिवांस्तमेवार्थं दरीमुखविसर्पिणा । द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति । इत्यूचिवानुक्तवान् । वचेः क्वसुप्रत्ययः । हिमालयो हिमवान्गुहानां मुखेषु विवरेषु विसर्पतीति तथोक्तेन प्रतिशब्देन तमेव पूर्वोक्तमेवार्थं द्विर्द्विवारम् । `द्वित्रिचतुर्भ्यः सुच्` (पा.5|4|18) इति सुच्प्रत्ययः । व्याजहार बभाषे अन्वयः: इति ऊचिवान् हिमालयो गुहामुखविसर्पिणा प्रतिशब्देन तम् अर्थं द्विः व्याजहार इव ।
KS 6.65 अनुष्टुप्
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयश्चोदयामासुः प्रत्युवाच स भूधरम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथानन्तरमृषय उदाहरणानि कथाप्रसङ्गास्त एव वस्तून्यर्थास्तेष्वग्रं नयतीत्यग्रणीस्तमग्रण्यं प्रगल्भम् । `सत्सूद्विषे-` त्यादिना क्विप् । `अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्` इति णत्वम् । अङ्गिरसं नामर्षि नोदयामासुः प्रतिवक्तुम् प्रेरयामासुः । सोऽङ्गिरा भूधरं हिमवन्तं प्रत्युवाच अन्वयः: अथ ऋषयः उदाहरणवस्तुषु अग्रगण्यम् अङ्गिरसं नोदयामासुः । स भूधरम् प्रत्युवाच ।
KS 6.66 अनुष्टुप्
उपपन्नमिदं सर्वमतः परमपि त्वयि । मनसः शिखराणां च सदृशी ते समुन्नतिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उपपन्नमिति । इदम् `एते वयममी दाराः` (६/६३) इत्याद्युक्तं सर्वमतः परमतोऽधिकमपि त्वय्युपपन्नं युज्यते । तथाहि । ते मनसः शिखराणां च समुन्नतिः सदृशी । शिखराणीव मनो महोन्नतमित्यर्थः । किं नाम दुष्करमुन्नतचित्तानामिति भावः । प्रस्तुताप्रस्तुतयोर्मनः शिखरयोरौपम्यस्य गम्यत्वाद्दीपकालंकारः अन्वयः: (हे पर्वतराज !) इदं सर्वम् अतः परम् अपि त्वयि उपपन्नम्, ते मनसः शिखराणां च सदृशी समुन्नतिः ।
KS 6.67 अनुष्टुप्
स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते । चराचराणां भूतानां कुक्षिराधारतां गतः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्थान इति । त्वां स्थावरात्मानं स्थावररूपिणं विष्णुमाहुः `स्थावराणां हिमालयः` इति गीतावचनात् । स्थने युक्तम् । युक्तार्थेऽव्ययमेतत् । `युक्ते द्वे सांप्रतं स्थाने` इत्यमरः । तथाहि । ते तव कुक्षिश्चराचराणां जङ्गमस्थावररूपिणां भूतानां पृथिव्यादीनामाधारतां गतः । तवेव विष्णोः कुक्षिरेवंभूत इति भावः अन्वयः: त्वां स्थावरात्मानं विष्णुम् आहुः, स्थाने । तथा हि ते कुक्षिः चराऽचराणां भूतानाम् आधारतां गतः ।
KS 6.68 अनुष्टुप्
गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूलात्त्वमवालम्बिष्यथा न चेत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गामिति । नागः शेषाहिर्मृणालमृदुभिर्बिसकोमलैः फणैर्गां भुवं कथमघास्यद्धारयेत् । त्वमारसातलमूलात्पातालपर्यन्तम् । विकल्पादसामासः नावालम्बिष्यथाश्चेत्पादैर्नावलम्बेथा यदि । त्वदवलम्बनादेव भुजगराजोऽपि भुवं बिभर्तीत्यर्थः । अत्र क्रियातिपत्त्यभावाल्लृङ्प्रयोगश्चिन्त्यः अन्वयः: नागो मृणालमृदुभिः फणैः गां कथम् अधास्यत् त्वम् आरसातलमूलात् न अवलम्बिष्यथ न चेत् ।
KS 6.69 अनुष्टुप्
अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः । पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अच्छिन्नेति । अच्छिन्ना अविच्छिन्ना अमलाश्च संतानाः प्रबन्धाः प्रवाहाश्च यासां तस्तथोक्ताः समुद्रोर्मिभिरनिवारिताः । पारगमनादन्तःप्रवेशाच्चेति भावः । ते तव कीर्तयः सरितश्च गङ्गादयः पुण्यत्वात्पवित्रत्वाल्लोकान्पुनन्ति पावयन्ति । लोकपावनाः खलु पुण्यश्लोका इति भावः । केवलप्रकृतविषयस्तुल्ययोगितालङ्कारः अन्वयः: अच्छिन्नाऽमलसन्तानाः समुद्रोर्म्यनिवारिताः ते कीर्तयः सरितश्च पुण्यत्वात् लोकान् पुनन्ति ।
KS 6.70 अनुष्टुप्
यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः । प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यथैवेति । गङ्गा भागीरथी । प्रभवत्यस्मादिति प्रभवस्तेन कारणेन परमे तिष्ठतीति परमेष्ठिनो विष्णोः । परमे कित्प्रत्ययः । `तत्पुरुषे कृति बहुलम्` (पा.6|3|14) इत्यलुक् `-परमेवर्हिर्दिव्यग्निभ्यः स्थः` इति षत्वम् । पादेन चरणेन यथैव श्लाध्यते प्रशस्यते तथैव द्वितीयेन प्रभवेणोच्छिरसा त्वया श्लाध्यते । हरिचरणवत्तीर्थस्यापि तीर्थभूतस्त्वमिति भावः अन्वयः: गङ्गा प्रभवेण परमेष्ठिनः पादेन यथैव श्लाध्यते तथैव द्वितीयेन प्रभवेण उच्छिरसा त्वया श्लाध्यते ।
KS 6.71 अनुष्टुप्
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः । त्रिविक्रमोद्यतस्यासीत्स च स्वाभाविकस्तव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तिर्यगिति । तिर्यगूर्ध्वमधस्ताच्च व्यापकः । सर्वव्यापीत्यर्थः । महिमा महत्त्वं हरेर्विष्णोस्त्रिषु विक्रमेषूद्यतस्य सत आसीत् । त्रिविक्रमोद्यतस्यास्ति कदाचिदेव न तु सर्वदेत्यर्थः । तव तु व्यापको महिमा स्वाभाविकः । नित्यसिद्ध इत्यर्थः अन्वयः: तिर्यक् ऊर्ध्वम् अधस्ताच्च व्यापको महिमा त्रिविक्रमोद्यतस्य हरेः आसीत्, तव तु व्यापको महिमा स्वाभाविकः ।
KS 6.72 अनुष्टुप्
यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया । उच्चैर्हिरण्मयं शृङ्गं सुमेरोर्वितथीकृतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यज्ञेति । यज्ञभागभुजामिन्द्रादीनां मध्ये पदमातस्थुषा निहितवता त्वयोच्चैरुन्नतं हिरण्यस्य विकारो हिण्मयम् । `दाण्डिनायनहास्तिनायने-` त्यादिनिपातनात्साधु । सुमेरोः श्रृङ्गं शिखरम् । प्राधान्यं च ध्वन्यते । `श्रृङ्गं प्राधान्यसान्वोश्च` इत्यमरः । वितथीकृतं व्यर्थीकृतम् । तस्य यज्ञभागाभावादिति भावः । अस्य तु तत्सद्भावे प्रमाणम्- `हिमवतो हस्ती` ति श्रुतिः अन्वयः: यज्ञभागभुजां मध्ये पदम् आतस्थुषा त्वया सुमेरोः हिरण्मयम् उच्चैः श्रृङ्गं वितथीकृतम् ।
KS 6.73 अनुष्टुप्
काठिन्यं स्थावरे काये भवता सर्वमर्पितम् । इदं तु भक्तिनम्रं ते सतामाराधनं वपुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): काठिन्यमिति । भवता सर्वं काठिन्यम् । अनम्रत्वमित्यर्थः । स्थावरे स्थिरे काये । शिलामय इत्यर्थः । अर्पितं न्यस्तम् । सतामर्हतामाराधनं पूजासाधनं त इदं वपुस्तु जङ्गममित्यर्थः । भक्तिनम्रम् । काठिन्यलेशोऽप्यत्र नास्त्यन्यथा नम्रत्वासंभवादित्यर्थः । तथा चासाधारण्यं ध्वन्यते अन्वयः: भवता सर्वं काठिन्यं स्थावरे काये समर्पितम्, सताम् आराधनं ते इदं वपुस्तु भक्तिनम्रम् ।
KS 6.74 अनुष्टुप्
तदागमनकार्यं नः शृणु कार्यं तवैव तत् । श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति । तत्तस्मान्नोऽस्माकमागमनस्य कार्यं प्रयोजनं श्रृणु । तत्कार्यं च तवैव, न त्वस्माकमित्यवधारणार्थ एवकारः । वयं तु श्रेयसामुपदेशादत्र कार्येंऽशभागिनः । त्वमेवात्र फलभाग्वयमुपदेष्टार इति भावः अन्वयः: तत् नः आगमनकार्यं श्रृणु । तत् कार्यं तव एव । वयं तु श्रेयसाम् उपदेशात् अत्र अंशभागिनः ।
KS 6.75 अनुष्टुप्
अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अणिमेति । यः शंभुरणिमादिगुणोपेतमणिमादिभिरष्टाभिर्गुणैर्वाच्यभूतैरुपेतम् । अष्टैश्वर्यवाचकमित्यर्थः, अतएवास्पृष्टं पुरुषान्तरं येन तं तथोक्तम् पुरुषान्तरस्यानभिधायकम् । तस्यैवैवंगुणत्वादित्यर्थः, उच्चः परमेश्वर इति शब्दम् । निरुपपदेश्वरशाब्दमित्यर्थः । सार्धचन्द्रमर्धचन्द्रयुक्तम् । अर्धचन्द्रं चेत्यर्थः । बिभर्ति अन्वयः: यः अणिमादिगुणोपेतम् अस्पृष्टपुरुषाऽन्तरम् उच्चैः ईश्वर इति शब्दं सार्धचन्द्रं बिभर्ति ।
KS 6.76 अनुष्टुप्
कल्पितान्योन्यसामर्थ्यैः पृथिव्यादिभिरात्मनि । येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कलितेति । येन शंभुना कलितं धृतिसंग्रहादिस्वस्वगुणसंपादितमन्योन्यसामर्थ्यं परस्परसहकाररुपं यैस्तथोक्तैः । स्वस्वरुपसामर्थ्यमन्योन्याधेयमेवेति भावः । पृथिव्यादिभिरात्मभिः । अष्टाभिर्मूर्तिभिरित्यर्थः । इदं व्यक्तं विश्वं धुरं वहन्तीति धुर्यैरश्वैः । `धुरो यड्ढको` इति यत्प्रत्ययः । अध्वनि यानं रथ इव ध्रियते अन्वयः: येन कलिताऽन्योन्यसामर्थ्यैः पृथिव्यादिभिः आत्मभिः इदं विश्वं धुर्यैः अध्वनि यानम् इव ध्रियते ।
KS 6.77 अनुष्टुप्
योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् । अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): योगिन इति । योगिनोऽध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनं शरीरान्तश्चरं सर्वभूतान्तर्यामिणम् । परमात्मस्वरूपिणमित्यर्थः । `क्षेत्रं पत्नीशरीरयोः` इत्यमरः (अ.को.3|3|188) । यं शंभुं विचिन्वन्ति मृगयन्ते, मनीषिणो विद्वांसो यस्य शंभोः पदं स्थानमविद्यमानमावृत्तेः पुनः संसारापत्तेर्भयं यत्र तत्तथाभूतमाहुः अन्वयः: योगिनः क्षेत्राऽभ्यन्तरवरवर्तिनं यं विचिन्वन्ति, मनीषिणो यस्य पदम् अनावृत्तिभयम् आहुः ।
KS 6.78 अनुष्टुप्
स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणः । वृणुते वरदः शंभुरस्मत्संक्रामितैः पदैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति । विश्वस्य जगतः कर्मणां साक्षी द्रष्टा । `साक्षाद्द्रष्टरि संज्ञायाम्` (पा.5|2|91) इतिनिप्रत्ययः । वरानिष्टान्ददातीति वरदः । `आतोऽनुपसर्गे कः` (पा.3|2|3) इति कप्रत्ययः । स पूर्वोक्तः शंभुरस्मत्संक्रामितैः पदैरस्मासु निवेशितैर्वाक्यैस्ते दुहितरं साक्षाद् वृणुते । अस्मन्मुखेन स्वयमेव याचत इत्यर्थः अन्वयः: विश्वस्य कर्मणां साक्षी वरदः स शम्भुः अस्मत्संक्रामितैः पदैः ते दुहितरं साक्षात् वृणुते ।
KS 6.79 अनुष्टुप्
तमर्थमिव भारत्या सुतया योक्तुमर्हसि । अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति । तं शंभुं भारत्या वाचार्थमभिधेयमिव सुतया दुहित्रा योक्तुं संघटयितुमर्हसि । अत्र वागर्थयोरुपमानत्वसामर्थ्याच्छिवयोर्नित्ययोगो विवक्षित इत्युक्तम् `वागर्थाविव संपक्तौ` (रघुवंशे १/१) इत्यत्रापि । तथाहि सद्भर्त्रे प्रतिपादिता दत्ता कन्या पितुरशोच्या अन्वयः: भारत्या अर्थम् इव तं सुतया योक्तुम् अर्हसि । हि सद्भर्तृप्रतिपादिता कन्या पितुः अशोच्या ।
KS 6.80 अनुष्टुप्
यावदेतानि भूतानि स्थावराणि चराणि च । मातरं कल्पयन्त्येनामीशो हि जगतः पिता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यावन्तीति । स्थावराणि चराणि च यावन्त्येतानि भूतानि सन्तीति शेषः । सर्वाणि भूतानीत्यर्थः । एनां ते दुहितरं मातरं कल्पयन्तु । हि यस्मादीशो जगतः पिता । पितृदारेषु मातृभावो न्याय्य इति भावः अन्वयः: स्थावराणि चराणि च यावन्ति एतानि भूतानि एनां मातरं कल्पयन्तु, हि ईशो जगतः पिता ।
KS 6.81 अनुष्टुप्
प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् । चरणौ रञ्जयन्त्यस्याश्चूडामणिमरीचिभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रणम्येति । विबुधा देवाः शितिकण्ठाय शिवाय प्रणाम्य तदनन्तरं नीलकण्ठप्रणामानन्तरमस्याश्चरणौ चूडामणिमरीचिभी रञ्जयन्तु । ईश्वरपरिग्रहादखिलदेवतावन्द्या भवत्वित्यर्थः अन्वयः: विबुधाः शितिकण्ठाय प्रणम्य तदनन्तरम् अस्याः चरणौ चूडामणिमरीचिभिः रञ्जयन्तु ।
KS 6.82 अनुष्टुप्
उमा वधूर्भवान्दाता याचितार इमे वयम् । वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उमेति । उमा वधूः । इमे वयं याचितारः प्रार्थकाः । शंभुर्वरो वोढा । एष विधिरेषा सामग्री त्वत्कुलस्योद्भूतये उच्छ्रयायालं पर्याप्तं हि । `नमः स्वस्तिस्वाहास्वधे-` त्यादिना चतुर्थी अन्वयः: उमा वधूः, भवान् दाता, इमे वयं याचितारः, शम्भुः वरः, हि एष विधिः त्वत्कुलोद्भूतये अलम् ।
KS 6.83 अनुष्टुप्
अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः । सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अस्तोतुरिति । स्वयमन्यस्तोता न भवतीत्यस्तोतुः, किंतु स्तूयमानस्य सर्वस्तुत्यस्य, वन्द्यस्य, जगद्वन्द्यस्य स्वयमन्यं न वन्दत इत्यनन्यवन्दिनो विश्वगुरोर्देवस्य सुतासंबन्धविधिना यौवनसंबन्धाचरणेन गुरुर्भव । यो नान्यं स्तौति न वन्दते तस्यापि त्वं स्तुत्यो वन्द्यश्चेत्यहो तव भाग्यवत्तेत्यर्थः अन्वयः: अस्तोतुः स्तूयमानस्य, वन्द्यस्य अनन्यवन्दिनो विश्वगुरोः सुतासम्बन्धविधिना गुरुः भव ।
KS 6.84 अनुष्टुप्
एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एवमिति । देवर्षावङ्गिरस्येवंवादिनि सति पार्वती पितुः पार्श्वेऽधोमुखी सती । लज्जयेति शेषः । लीलाकमलपत्राणि गणयामास संचख्यौ । लज्जावशात्कमलदलगणनाव्याजेन हर्ष जुगोपेत्यर्थः । अनेनावहित्याख्यः संचारी भाव उक्तः । तदुक्तम्- `अवहित्था तु लज्जादेर्हर्षादाकारगोपनम्` । इति अन्वयः: देवर्षौ एवंवादिनि (सति) पार्वती पितुः पार्श्वे अधोमुखी (सती) लीलाकमलपत्राणि गणयामास ।
KS 6.85 अनुष्टुप्
शैलः संपूर्णकामोऽपि मेनामुखमुदैक्षत । प्रायेण गृहिणीनेत्राः कन्यार्थे हि कुटुम्बिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शैल इति । शैलो हिमवान्संपूर्णकामोऽपि । दातुं कृतनिश्चयोऽपीत्यर्थः । मेनामुखमुदैक्षत । उचितोत्तरजिज्ञासयेति भावः । तथा हि । प्रायेण कुटुम्बिनो गृहस्थाः कन्यार्थेषु कन्याप्रयोजनेषु गृहिण्येव नेत्रं कार्यं ज्ञानकारणं येषां ते तथोक्ताः । कलत्रप्रधानवृत्तय इत्यर्थः अन्वयः: शैलः सम्पूर्णकामः अपि मेनामुखम् उदैक्षत, (हि) प्रायेण कुटम्बिनः कन्यार्थेषु गृहिणीनेत्राः ।
KS 6.86 अनुष्टुप्
मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् । भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मेना इति । मेनापि पत्युर्हिमालयस्य तत्सर्वमभीप्सितं कार्यं मेनेऽङ्गीचकार । तथाहि । पतिरेव व्रतं यासां ता भर्तुरिष्टेऽभीप्सिते न विद्यते व्यभिचारो यासां ता अव्यभिचारिण्यो भवन्ति भर्त्तुचित्ताभिप्रायज्ञा भवन्तीति भावः अन्वयः: मेना अपि पत्युः तत् सर्वम् अभीप्सितं कार्यं मेने । (तथा हि) पतिव्रता भर्तुः इष्टे अव्यभिचारिण्यो भवन्ति ।
KS 6.87 अनुष्टुप्
इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः । आददे वचसामन्ते मङ्गलालङ्कृतां सुताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इदमिति । स हिमवान्वचसामन्ते मुनिवाक्यावसानेऽत्र मुनिवाक्य इदमुत्तरश्लोके वक्ष्यमाणं दानमेव न्याय्यं न्यायादनपेतमुत्तरमिति बुद्ध्या चित्तेन विमृश्य विचिन्त्य मङ्गलं यथा तथालंकृतां सुतामाददे हस्ताभ्यां जग्राह अन्वयः: स वचसाम् अन्ते अत्र इदं न्याय्यम् उत्तरम् इति बुद्ध्या विमृश्य मङ्गलाऽलंकृतां सुताम् आददे ।
KS 6.88 अनुष्टुप्
एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता । अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एहीति । हे वत्से पुत्रि ! एह्यागच्छ । त्वं विश्वात्मने शिवाय भिक्षा परिकल्पितासि निश्चितासि । `रत्नादिस्तम्बपर्यन्तं सर्वं भिक्षा तपस्विनः` । इति वचनादिति भावः । अर्थिनो याचितारो मुनयः । मया गृहमेधिनो गृहस्थस्य फलं प्राप्तम् । इह परत्र च तारकत्वात्पात्रे कन्यादानं गार्हस्थ्यस्य फलमित्यर्थः अन्वयः: हे वत्से ! एहि । त्वं विश्वात्मने भिक्षा परिकल्पिता असि । अर्थिनो मुनयः । मया गृहमेधिफलं प्राप्तम् ।
KS 6.89 अनुष्टुप्
एतावदुक्त्वा तनयाम् ऋषीनाह महीधरः । इयं नमति वः सर्वांस्त्रिलोचनवधूरिति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एतावदिति । महीधरो हिमवांस्तनयामेतावत्पूर्वोक्तमुक्त्वार्षीनाह-किमिति । इयं त्रिलोचनवधूस्त्र्यम्बकपत्नी वः सर्वान्नमतीति । त्रिलोचनवधूरितिसिद्धवदभिधानेनाविप्रतिपन्नं दानमिति सूचयति अन्वयः: महीधरः तनयाम् एतावत् उक्त्वा `इयं त्रिलोचनवधूः सर्वान् वो नमति` इति ऋषीन् आह ।
KS 6.90 अनुष्टुप्
ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः । आशीर्भिरेधयामासुः पुरःपाकाभिरम्बिकाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ईप्सितार्थेति । ते मुनयः । ईप्सितार्थक्रिययेष्टार्थकरणेनोदारं महत् । `उदारो दातृमहतोः` इत्यमरः (अ.को.3|3|200) । गिरेर्हिमवतो वचो वचनमभिनन्द्य साध्विति संस्तुत्याम्बिकामम्बाम् । पच्यत इति पाकः फलम् । पुरःपाकाभिः पुरस्कृतफलाभिराशीर्भिराशीर्वादैरेधयामासुः संवर्धयामासुः अन्वयः: ते ईप्सिताऽर्थक्रियोदारं गिरेः वचः अभिनन्द्य अम्बिकां पुरःपाकाभिः आशीर्भिः एधयामासुः ।
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →