कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते । शङ्के मत्पावनायैव प्रस्थानं भवतामिह ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
कर्तव्यमिति । कर्तव्यं कार्यं वो युष्माकं न पश्यामि । निःस्पृहत्वादिति भावः । अथ स्याच्चेद्विद्येत यदि, किं नोपपद्यते किं नाम न संभवति । सर्वं सुलभमेवेत्यर्थः । अथवा किमत्र प्रयोजनचिन्तयेत्याह-- मत्पावनाय मच्छोधनायैव भवतामिह विषये प्रस्थानम् । इमं देशमुद्दिश्येदं प्रयाणमित्यर्थः । मन्ये तर्कयामि
अन्वयः:
कर्तव्यं वो न पश्यामि, अथ स्यात् चेत् किं न उपपद्यते ? मत्पावनाय एव भवताम् इह प्रस्थानं मन्ये ।
Morphemic Decomposition & Padaccheda
कर्तव्यं
कृ [2. Ā.]
वो
त्वद् [pron]
न
न [ind]
पश्यामि
दृश् [6. P.]
स्याच्
अस् [2. P.]
चेत्
चेद् [ind]
किं
क [pron]
नोपपद्यते
न [ind]
नोपपद्यते
उपपद् [4. P.]
शङ्के
शङ्क् [1. P.]
मत्पावनायैव
मद् [pron]
मत्पावनायैव
पावन [n]
मत्पावनायैव
एव [ind]
प्रस्थानं
प्रस्थान [n]
भवताम्
भवत् [adj]
इह
इह [ind]