Skip to main content
Search
MD
Meghadūtam • Chapter 01

Complete Text

सर्गः 1

Complete Text of Meghadūtam.

Total: 111 Verses • Citations: MD 1.1–111 • 1 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
MD 31 मन्दाक्रान्ता
दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: यत्रोज्जयिन्यां कामिनीनां सिप्रासरिदनिलः सुरतग्लानिं मोहनखेदं हरत्यपास्यति । कीदृशः । सारसानां लक्ष्मणानां मदेन मधुरं स्फुटं च कूजितं दी|कुर्वन्प्रमारयन् । तथा प्रभातेषु स्फुटितानि विकसितानि यानि कमलानि तेषामामोदः सौरभं तस्य मैत्र्या संपर्केण कषायः कषायरसयुक्तः । भावित इत्यर्थः । अङ्गानुकूलो गात्रसुखकारी । शीतलसुरभित्वात् । क इव हरतीत्याह । प्रार्थनया चाटुकारः प्रियकृत्प्रेयान्यथा कामिन्या अङ्गग्लानिमपहरति । सिप्राख्योज्जयिन्यां नदी ॥
MD 32 मन्दाक्रान्ता
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूमैर्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्तोपहारः । हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: अस्या उज्जयिन्याः सौधेष्वध्वखिन्नानन्तरात्मा निशामतिवाह्य चण्डेश्वरम्य शंभोर्धामायतनं याया गच्छेः । कीदृशः । जालोद्गीर्णैर्गवाक्षविवरनिर्गतैरङ्गनामूर्धजोपस्कारधूमैरुपचितवपुः पीवरतनुः । धूमप्रायत्वादभ्राणाम् । तथा गृहमयूरैः सुहृत्स्नेहाद्दत्तो वितीर्णो नृत्तमेवोपहारो बलिर्यस्य । ते हि त्वामालोक्य सुहृत्स्नेहान्नृत्यन्ति । कीदृशेषु हर्म्येषु । कुसुमैरूपकारपुष्पैः सुगन्धिषु । तथा ललितानां सविलासानां वनितानां पादानामलक्तकेनाङ्कितेषु चिह्नितेषु । त्वं कीदृशः । गणैः प्रीत्यालोक्यमानः । कुतः । भर्तुः शम्भोः कण्ठच्छविर्गलनिभकान्तिरित्यतो हेतोः । कीदृशं धाम । पुण्यं पवित्रम् । तथा गन्धवत्याख्याया नद्या मरुद्भिर्वातैर्धूतोद्यानमुल्लसितोपवनम् । कीदृशैः । कुवलयरजोगन्धिभिरुत्पलरेणुसौरभं विद्यते येषां तैः । तथा तोयक्रीडायां जलकेलौ निरताः सक्ता या युवतयस्तासां स्नानेन तिक्तैः कटुकैः । अङ्गरागसंक्रमणात् ॥
MD 33 मन्दाक्रान्ता
भर्तुः कण्ठच्छविरिति गणैः सादरं दृश्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य । धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्यास्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: अस्या उज्जयिन्याः सौधेष्वध्वखिन्नानन्तरात्मा निशामतिवाह्य चण्डेश्वरम्य शंभोर्धामायतनं याया गच्छेः । कीदृशः । जालोद्गीर्णैर्गवाक्षविवरनिर्गतैरङ्गनामूर्धजोपस्कारधूमैरुपचितवपुः पीवरतनुः । धूमप्रायत्वादभ्राणाम् । तथा गृहमयूरैः सुहृत्स्नेहाद्दत्तो वितीर्णो नृत्तमेवोपहारो बलिर्यस्य । ते हि त्वामालोक्य सुहृत्स्नेहान्नृत्यन्ति । कीदृशेषु हर्म्येषु । कुसुमैरूपकारपुष्पैः सुगन्धिषु । तथा ललितानां सविलासानां वनितानां पादानामलक्तकेनाङ्कितेषु चिह्नितेषु । त्वं कीदृशः । गणैः प्रीत्यालोक्यमानः । कुतः । भर्तुः शम्भोः कण्ठच्छविर्गलनिभकान्तिरित्यतो हेतोः । कीदृशं धाम । पुण्यं पवित्रम् । तथा गन्धवत्याख्याया नद्या मरुद्भिर्वातैर्धूतोद्यानमुल्लसितोपवनम् । कीदृशैः । कुवलयरजोगन्धिभिरुत्पलरेणुसौरभं विद्यते येषां तैः । तथा तोयक्रीडायां जलकेलौ निरताः सक्ता या युवतयस्तासां स्नानेन तिक्तैः कटुकैः । अङ्गरागसंक्रमणात् ॥
MD 34 मन्दाक्रान्ता
अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानुः । कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीयामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: हे जनधरान्यस्मिन्नपि कालेऽवसरे महाकालाभिधानं भगवन्तमासाद्य तावत्त्वयासितव्यं यावदर्कश्चक्षुर्गोचरतां चक्षुर्दृश्यत्वमुपैति । प्रातःसंध्यासमयपर्यन्तमित्यर्थः । किमर्थमित्याह । शूलिनो महाकालस्य संध्याबल्यर्थं पटहतां तूर्यत्वं श्लाघनीयां विदधत्त्वमामन्द्राणां सर्वमधुराणां गर्जितानां परिपूर्णं फलं प्राप्स्यसि । देवानां हि बलिकाले ढक्कापटहादिवाद्यैर्भाव्यम् । तत्र तु भवद्ध्वनितान्येव पटहीभविष्यन्तीति तत्साफल्यम् । स्थातव्यं त इति कृत्यानां कर्तरि वा ॥
MD 35 मन्दाक्रान्ता
पादन्यासक्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तत्र महाकालधाम्नि वेश्या भगवद्गणिकास्त्वत्तो भवत्सकाशान्नखपदसुखकरान्वर्षाग्रबिन्दून्प्रथमजलकणानासाद्य प्रीतिवशात्त्वयि भ्रमरपालीपृथुलान्कटाक्षानाक्षेप्स्यन्ति । कीदृश्यस्ताः । पादन्यासेन क्वणितरशना रणन्मेखलाः । तथा विलासवलितैर्बालव्यजनैः खिद्यमानकरा इति सौकुमार्योक्तिः । ता हि देवं वीजयन्त्यः सेवन्ते । कोदृशैस्तैः । रत्नच्छायया खचिताः प्रकटीकृता वलय उदरलेखा यैः । तासां हि वासोयुगाच्छादितानां चामरमणिभासा मध्यवलयः प्रकटीभवन्ति ॥
MD 36 मन्दाक्रान्ता
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: पश्चादनन्तरं तत्र पशुपतेः शंभोर्नृत्तारम्भ आर्द्रगजाजिनेच्छां रुधिरसरसगजचर्माभिलाषं हर नाशय । तव तन्निभत्वात् । तथा हि कीदृशस्त्वम् । उच्चैरुद्गतं भुजतरुवनं दोर्द्रुमषण्डं मण्डलेन तिर्यगभिलीनः संश्रितः । तथाभिनवजपापुष्पवल्लोहितं सांध्यं तेजो बिभ्रत् । एवं च नवगजाजिनकाङ्क्षाहरणम् । भवान्या गोर्या दृष्टभक्तिरालोकितेत्थं विधमेवनः । कथम् । विद्युदुन्मेषाभावाच्छान्तोद्वेगानि निवृत्तखेदान्यत एव स्तिमितानि नयनानि यत्र दर्शने ॥
MD 37 मन्दाक्रान्ता
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तत्रोज्जयिन्यामभिसारिकाणां सौदामिन्या तडिता राजमार्गं दर्शय प्रकाशय। यतो नक्तं रात्रौ प्रियतमवसतिं व्रजन्तीनाम् । अत एवातिघनत्वात्सूच्या भेद्यस्तमोभी रद्धालोकेऽवष्टब्धप्रकाशे पथि । कीदृश्या तया । कनकनिकषवत्सुवर्णघर्षणवत्स्निग्धयारूक्षया । एवं च कृत्वा तोयोत्सर्गार्थं स्तनितेन गर्जितडम्बरेण मुखरः सशब्दो मा भूः । यतस्ता योषिद्भावात्कातराम्बग्नवः[अस्पष्टं मुद्रणम्] ॥
MD 38 मन्दाक्रान्ता
तां कस्यां चिद्भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तां पूर्वोक्तां रात्रिं कस्यामपि भवनवलभौ गृहोपरिपुरे नीत्वातिवाह्य ततः मूर्योदये भूयोऽपि भवान्मार्गमवशिष्टं वाहयेदुल्लङ्घयेत् । यस्मान्मित्राणां यैरर्थकृत्यं प्रयोजनमभ्युपेतमूरीकृतं शिरसाङ्गीकृतं ते न खलु मन्दायन्ते नैवालसा भवन्ति । कीदृश्यां वलभौ । सुप्ताः पारावताः कपोतविशेषाः यत्र । ते हि कण्ठरुतश्रवणार्थं नागरकैर्गृहे धार्यन्ते । त्वं कीदृशः । चिरं विलसनात्स्विन्नं श्रान्तं विद्युदेव कलत्रं भार्या यस्य सः । अत एव वलभौ विश्रमणम् । अमन्दो मन्दो भवति मन्दायते । भृशादित्वात्क्यङ् । अर्थश्चासौ कृत्यमर्थकृत्यम् । अर्थः प्रयोजनम् । अवश्यकार्यत्वाच्चास्य कृत्यत्वम् ॥
MD 39 मन्दाक्रान्ता
तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: अतः कारणाद्भानोः सूर्यस्य वर्त्म मार्गं त्यज । माच्छादको भूरित्यर्थः । यतस्तस्मिकाले प्रभाताख्ये खण्डितानां विप्रलब्धानामङ्गनानां प्रियैरागत्यास्रु नेत्रजलं शमनीयम् । यदि त्वमस्य पटनिभो भवसि तदालोकनपाटवाभावान्निशाशङ्कया नागमनं स्यादिति वर्त्म भानोस्त्यज । किं च सोऽपि भानुः खण्डितायाः कमलिन्याः प्रियायाः कमालादेव वदनात्प्रालेयमवश्यायमेवास्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । तेनापि पद्मिन्याः प्रार्थना कार्येत्यर्थः । अतस्त्वयि कररुधि रश्मिरोधकेऽनल्पाभ्यसूयो भवेत् । त्वयि महान्तं रोषं भावयेत् । यस्य हि प्रियां प्रार्थयमानस्य यः करमवष्टम्भीयात्तस्य तत्र मन्युर्भवति । निद्राकषायमुकुलीकृतेत्यादि' ॥
MD 40 मन्दाक्रान्ता
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मात्तस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: गम्भीराख्यायाः सरितः पयसि प्रसन्ने तव स्वभावसुन्दरच्छायारूपोऽप्यात्मा प्रतिबिम्बरूपश्चेतसीव प्रवेशं लप्स्यते । तस्मात्कारणादस्या नद्याः कैरवसितानि चपलशफरोद्वर्तनप्रेक्षितानि कम्पमानमीनम्फुरितावलोकितानि धाैर्याद्गाम्भीर्यान्मोघीकर्तुं वन्ध्ययितुं नार्हसि । ततो मा गम इत्यर्थः । गमनाद्धि तानि निष्फलानि स्युः । यश्च नागरः स प्रेयस्यां रागेण वीक्षमाणायां विलम्बते । स हि तस्याश्चेतसि प्रविष्टः ॥
MD 41 मन्दाक्रान्ता
तस्याः किं चित्करधृतमिव प्राप्तवानीरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तस्या गम्भीराया नीलं मलिनमेव वसनमम्बरं पानवशाद्धृत्वापास्य तव लम्बमानस्य जलभरमन्थरत्वात्तचेव तिष्ठतः प्रस्थानं कथमपि भावि प्रयाणं कथमपि भविष्यति । यम्माद्यो ज्ञातास्वादोऽमुभूतरसः स पुनिमजघनां तीरपृथुनितम्बां युवतिं कस्त्यक्तुं समर्थः । त्वं च पानी यपानाद्विदितास्वादः । सापि पुलिनमेव जघनं यस्याः सा पुलिनजघना । कीदृशं सलिलवसनम् । प्राप्तं लब्धवद्वानीरशाखा वेतसीलताः । वानीरशाखाश्लिष्टमित्यर्थः । प्राप्तापन्ने च दितीयया । यदि वा प्राप्ता वानीरशाखा येनेति बहुव्रीहिः । अतश्चोत्प्रेक्षते । करधृतमिव हस्तावष्टब्धं यथा । अंशुकं हरतो हि कामिनो नार्यः कराभ्यां रुन्धन्ति । नीलं हरितम् । ग्रीष्मेऽल्पत्वात् । अतश्च हरणान्मुक्तमुत्सृष्टं रोधस्तीरमेव नितम्बो येन । यदप्यम्बरं ह्रियते तन्मुक्तनितम्बं भवति । भविष्यतीति भावि॥
MD 42 मन्दाक्रान्ता
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्कपुण्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: ततो देवगिरिमुपजिगमिषोर्यियासोस्तव सतुषारः पवनो नीचैर्वास्यति मन्थरं गमिष्यति । कीदृशः । तव निष्यन्देन तोयमोक्षणोच्छ्वसिता विकसिता हृषिता यासौ वसुधा भूमिस्तस्या गन्धसंपर्केण सौरभव्यतिकरेण पुण्यो मनोज्ञः । तथा सौख्याद्दन्तिभिः पीयमानः । कथम् । स्रोतोरन्ध्रं करविवरं तस्य ध्वनितं शूत्कारस्तेन सुभगं रम्यम् । सशूस्कृतमित्यर्थः । मुषिरे हि वातप्रवेशादधिको ध्वनिर्भवति । स्रोतः करः करिणः । यथा । प्रासप्रोतसोतसान्तःक्षतेनेति माघस्य । तथा कानमे वन उदुम्बरफलानां परिणमयिता पाचयिता । तद्वशात्पाकोत्पत्तेः ॥
MD 43 मन्दाक्रान्ता
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर्नवशशिभृता वासवीनां चमूनामत्यादित्यं हुतवहमुखे संभृतं तद्द्हि तेजः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तत्र देवगिरौ सदासंनिहितं कुमारं त्वं सुरसरिदुदकरसैः कुसुमवर्षैः पुष्पमेघीकृतात्मत्वात्स्नपयेः पूजयेः । यस्माद्वासवीनां चमूनामैन्द्रीणां सेनानां रक्षार्थं नवशशिभृता चन्द्रमौलिनात्यादित्यं सूर्यादप्यधिकं तत्तेजो वीर्यं संभृतं क्षिप्तम् । असुरोपद्रुतसुररक्षार्थं हि कार्तिकेयो हरेण गौर्यां जनित इत्यागमः । तच्च शुक्रं स्वस्थानचलितमग्निना पीतमभूत् । वासवीनामिति दुर्लभः प्रयोगः । वृद्धाच्छेनाणो बाधितत्वात् । अतिक्रान्त आदित्यो येन तदत्यादित्यम् ॥
MD 44 मन्दाक्रान्ता
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रीत्या कुवलयपदप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: पश्चादनन्तरं पावकेः स्कन्दस्य तं वाहनं मयूरं गर्जितैर्नर्तयेथा लास्यं कारयेथाः । जलदरवनिशमनाद्धि बर्हिणो नृत्यन्ति । तमित्युक्तम् । कं तमित्याह । यस्य गलितं भ्रष्टं बर्हं पक्षं गौरी पुत्रप्रीत्या कर्णे करोत्यवतंसीकुरुते । तच्च कुवलयपदप्राप्युत्पलस्थानारूढम् । ज्योतिर्लेखावलयं तेजोराजिमण्डलं विद्यते यस्य तत्तथोक्तम् । हरशशिरुचा शिवशिरश्चन्द्रश्चन्द्रिकया धौतापाङ्गं क्षालितनेत्रान्तम् । गर्जितैः कीदृशैः । अद्रिग्रहणगुरुभिः पर्वतप्राप्तिपीवरैः । अद्रिग्रहणशब्दे न कर्तृपष्ठीसमासः । नर्तयेथा इति न पादमीत्यादिनात्मनेपदम् ॥
MD 45 मन्दाक्रान्ता
आराध्यैवं शरवणभुवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: शरवणभुवं कुमारमेवं पुष्पासारैः स्नपनादिप्रकारेणाराध्य किंचिच्चाध्वानमतिक्रम्य रन्तिदेवम्य राज्ञः कीर्तिं चर्मण्वत्याख्यां मानयिष्यन्पूजयितुं व्यालम्बेथाः श्रयेथा गच्छेः । कीदृशीम् । सुरभितनया गावस्तासामालम्भनं प्रोक्षणं ततो जाता प्रसूता भुवि च स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपान्तरं गताम् । तेन हि नृपेण क्रतुष्वतिबृंहीयस्यो गावः संक्षापिता यासं रुधिराच्चर्मभ्यश्च चर्मण्वती सम्पन्नेत्यागमः । त्वं कीदृशः । सिद्धमिथुनस्तोयबिन्दुत्रासान्मुक्तमार्गः परिहृतपथः । यतो वीणिभिर्वल्लकीहस्तैः । तन्त्रीर्हि' जलार्द्रा विस्वरा भवति । अपरासाद्य वीर्यं सोढुमक्षमया गङ्गया शरवणे त्यक्तमित्यतः शरजत्वं स्कन्दस्य । प्रतिरन्तःशरेक्षुप्लक्षेत्यादिना णत्वम् ॥
MD 46 मन्दाक्रान्ता
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो दूरमावर्ज्य दृष्टीरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: त्वयि तोयं ग्रहीतुमवनते लम्बमाने सति तस्याः मिन्धोश्चर्मण्वत्याः प्रवाहं सिताख्या नभश्चराश्चक्षूंषि दूरमत्यर्थमावर्ज्य निक्षिप्य कौतुकाद्द्रक्ष्यन्ति । यतो भुवः स्थूलमध्येन्द्रनीलमेकं मुक्तागुणं मौक्तिकदामेव । स्रोतसो मुक्तागुणनिभत्वादम्बुदस्य च महानीलतुल्यत्वात् । कीदृशं प्रवाहम् । पृथुमपि तनुं विस्तीमपि स्वल्पम् । कुतः । दूरभावाद्विप्रकर्षात् । दूराद्धि महदपि स्वल्पं दृश्यते । अत एव मुक्तागुणसारूप्यम् । त्वयि कीदृशे । सजलत्वात्कृष्णस्य वर्णचौरे नीले । एतेनेन्द्रनीलनिभत्वमुक्तम् ॥
MD 47 मन्दाक्रान्ता
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तां चर्मण्वतीमतीत्य दशपुराख्ये नगरे युवतिनयनकौतुकानामात्मानं पात्रीकुर्वस्तासां नेत्रविषयं नयनन्गच्छेः । दशपुरनिकटेन याया यथा तन्नागरिकास्त्वामीक्षेरन्नित्यर्थः । कीदृशानाम् । नागरिकत्वात्परिचिता अभ्यस्ता भ्रूशाखाविलासा येषाम् । तथा त्वदालोकनवशात्पक्ष्मोत्क्षेपेणोपरि विलसन्ती स्फुरन्ती कृपणशारप्रभा येषाम् । अतश्च कुन्दकुसुमस्य यः क्षेपः प्रेरणां तस्यानुगा अनुयायिनो ये भ्रमरास्तेषां श्रियं शोभां मुष्णन्ति यानि तेषाम् । कुन्दानां मितत्वादलीनां च कालत्वात् । यद्यपि कौतूहलविशेषणान्येतानि तथापि वस्तुबलात्तद्वत्तां नेत्राणामिवैते गुणाः ॥
MD 48 मन्दाक्रान्ता
ब्रह्मावर्तं जनपदमधश्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: ततो ब्रह्मावर्ताख्यं जनपदमधश्छायया प्रतिबिम्बेन संस्पृशंस्तत्कुरुक्षेत्रं यायाः । कीदृशम् । क्षत्रप्रधनपिशुनं राजन्यकसमरसूचकम् । अद्यापि शरशकलाद्यालोकनात् । यत्र च क्षत्रियाणां तीक्ष्णशरशतैरर्जुनो वदनान्यभ्यषिञ्जत्संधुक्षयामास निर्भरीचकार । भवानिव जलवृष्टिभिर्नलिनानीति शरबाहुल्यकथनम् ॥
MD 49 मन्दाक्रान्ता
हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामभिगममपां सोम्य सारस्वतीनामन्तःस्वच्छस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: हे सोम्य दर्शनीयं तासां सरस्वतीसम्बन्धिनीनामपामभिगमं सेवनं विधाय निश्चेतनस्त्वमप्यन्तःस्वच्छोऽभ्यन्तरनिर्मलो भविता भविष्यसि । केवलं वर्णमात्रेण कृष्णः काल इति महा[अस्पष्टं मुद्रणम्]पुण्यत्वोक्तिः । अथ च वस्तुस्वभाव एवैष यन्मेघानां पानीयपानाद्बहिःकृष्णत्वमिति । तामामित्युक्तम् । कामामित्याह । या अपो लाङ्गलो हलधरो हालां मुरां हित्वोपेक्ष्य सिषेवे भेजे । बन्धूनां कुरुपाण्डवानां प्रीत्या वेसुख्यरक्षया । स हि तैर्योद्धुमर्थितः । द्वयेऽपि मे बान्धवाः । तत्कुत्र व्रजामीति विचार्य वेश्म त्याक्त्वा सारस्वततीर्थयात्रामकरोत् । हालात्यागेन नियमग्रहणं तीर्थसेवने प्रतिपादयति । कीदृशीं हालाम् । अभिमतरसामिष्टास्वादाम् । स हि सुराप्रियः । रेवती तद्भार्या । तस्या लोचने एवाङ्कश्चिह्नं प्रतिविम्बवशाद्यस्याः । भवितेति तृजन्तः । स हि कालसामान्ये । सोम व सोम्यः । शाखादिभ्यो यत् ॥
MD 50 मन्दाक्रान्ता
तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तस्मात्सरस्वतीदेशादनकनखलं कनखलाख्यतीर्थ समोपे हिमवतः प्रभृतां जाह्नवीं यायाः । कीदृशीम । सगरात्मजानां यष्टिसहस्रसंख्यानां स्वर्गार्थं सोपानपङ्क्तिं निःश्रेणिमालाम् । तत्प्राप्तापायत्वात् । ते हि पाताले कपिलेन रोषाद्दग्धा भगीरथावतारितया भागीरथ्याप्लावितभस्मानस्त्रिदिवमापुः । या च देवी भुवमवतरन्ती गौरीवक्त्रभ्रुकुटिरचनां दिण्डीरैरवहस्येव सपत्नीव शंभोः केशग्रहणमकरोदिति युवतिधर्मारोपः । इन्दौ लग्ना ऊर्मय एव हस्ता यस्याः सा । करेण हि केशाकर्षणं क्रियते । मत्संनिधावेवानया केशा गृह्यन्त इति गौर्या भ्रुकुटिबन्धः । केशेषु धारणाद्गङ्गायाः केशग्राहित्वम् । सा हि स्वर्गात्पतन्ती हरेण जटाग्रे धृतेत्यागमः । भ्रूकुटिवद्भ्रुकुटिशब्दः संयोगादिरप्यस्तीति न वृत्तभङ्गः ॥
MD 51 मन्दाक्रान्ता
तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः । संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा स्यादस्थानोपनतयमुनासंगमेवाभिरामा ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तस्या जाह्नव्या अमलस्फटिकधवलमुदकं त्वं चेत्पातुं तर्कयेः पश्येस्तत्प्रवाहे प्रसरन्त्या भवतच्छायया कान्या सपदि तत्क्षणं मा गङ्गास्थानोपनतयमुनासंगमेवाभिरामा स्यात् । प्रयागादन्यत्रापि संपन्नकालिन्दीसमागमा यथा रम्या भवेत् । त्वत्प्रतिबिम्बस्य यमुनाकारत्वात् । कीदृशस्त्वम् । सुरगज इवैरावणवन्नभसि पूर्वार्धेनोत्तरभागेण लम्बते यः स पूर्वार्धलम्बी ॥
MD 52 मन्दाक्रान्ता
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां रम्यां त्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तस्या एव खनद्याः प्रभवं जनकमचलमद्रिं हिमवन्तमासाद्य तदीयशिखरे स्थितस्त्वं हरवृषशिरीषदारितकर्दमसदृशीं मनोहरां शोभां वक्ष्यसि धारयिष्यसि । तस्य वृषभसितत्वात्तव च पङ्ककालत्वात् । कीदृशमचलम् । मृगाणां कस्तूरिकाकुरङ्गाणामुपविष्टानां नाभिगन्धैः सुगन्धीकृतशिलम् । तुषारैर्हिमैर्गौरं शुभ्रम् । तुहिनशीतलत्वाच्च शृङ्गस्य मार्गस्वेदनिवर्तकत्वम् । प्रभवत्यस्मादिति प्रभवः ॥
MD 53 मन्दाक्रान्ता
तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्रैरापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तं नगं यदि दावानलो बाधेत दहेत्तदेनमग्नि त्वमासारेण वेगवद्वर्षेण निर्वापयितुमर्हसि । यस्मान्महतामृद्धय आपन्नार्तिप्रशमितफलाः । यदि ह्यार्तानामापन्न विनाश्यते तत्किं समृद्ध्या प्रयोजनम् । कीदृशो दवाग्निः । वाते वहति सति सरलस्कन्धसंघट्टजन्या देवदारुविटपसंयोगसमुत्थितः । तत्संघट्टवशाद्धि दावानलो जायते । तथोल्काभिर्ज्वालाभिर्दग्धचमरीबालभारः ॥
MD 54 मन्दाक्रान्ता
ये त्वां मुक्तध्वनिमसहनाः कायभङ्गाय तस्मिन्दर्पोत्सेकादुपरि शरभा लङ्घयिष्यन्त्यलङ्घ्यम् । तान्कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: त्वां च गर्जन्तं तत्राद्रौ ये शरभाख्याः सत्त्वा दर्पोत्सेकान्मदोद्रेकादसहमानाः सन्तोऽलङ्घ्यमपि लङ्यिष्यन्ति जिघृक्षन्ति तांस्त्वं तुमुलकरकावृष्टिहासावकीर्णान्विषमोपलवर्षस्मिताच्छादितान्कुर्वीथाः । बाधेथा इत्यर्थः । न तच्चित्रं यत्ते नश्यन्ति । यतो निष्फल आरम्भे यत्नो येषां ते तथाविधाः के परिभवस्य स्थानं पात्रं न भवेयुः । अवश्यं ते परिभूयन्त इत्यर्थः । त्वदाक्रमणेच्छा शरभाणां निष्फला । तव ग्रहोतुमशक्यत्वात् ॥
MD 55 मन्दाक्रान्ता
तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः शश्वत्सिद्धैरुपहृतबलिं भक्तिनम्रः परीयाः । यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः कल्पन्तेऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तत्र हिमवति दृषदि शिलायामर्धेन्दुमौलेः शिवस्य व्यक्तं चरणन्यासं प्रकटां पादमुद्रां त्वं भक्त्या प्रणतः परीयाः प्रदक्षिणीकुर्याः । यस्मात्तस्मिन्नवलोकिते क्षपितकिल्बिषाः सन्तः श्रद्दधाना भक्ताः करणविगमादूर्ध्वं देहपातादनन्तरमस्य देवस्य स्थिरगणपदप्राप्तये कल्पन्ते । अनश्वराः प्रमथाः संपद्यन्ते । अत एव सदा सिद्धैर्निवेदितोपहारम् । इन्दोरर्धमर्धेन्दुर्मालौ शेखरे यस्य सोऽर्धेन्दुमौलिः । कलामात्रधारित्वेऽपि संस्थानापेक्षमर्धत्वम् । इणः परिपूर्वस्य लिङः सिपि परीया इति रूपम् । करणानीन्द्रियाणि विद्यन्ते यत्र तत्करणं वपुः । अर्श आदिभ्योऽच् ॥
MD 56 मन्दाक्रान्ता
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः । निर्ह्रादी ते मुरज इव चेत्कन्दरासु ध्वनिः स्यात्संगीतार्थो ननु पशुपतेस्तत्र भावी समस्तः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तव ध्वनिः कन्दरासु गुहासु निर्ह्रादी घूर्णमानो मुरज इव यदि भवेत्तत्तत्र हरस्य संगीतार्थो गुणनिकावस्तु समस्तोऽखण्डो भावी भविष्यति । अन्या हि तव सामग्री विद्यते । तथा हि कीचका वंशा वातैरुद्धूता मधुरं शब्दायन्ते ध्वनन्ति । भाविताभिश्च किंपुरुषाङ्गनाभिस्त्रिपुरदाहाख्यं काव्यं गीयते । त्वदीयश्च शब्दप्रतिबिम्बो मुरजनिभो यदि स्यात्तत्संगीतार्थः पशुपतेस्तच्च भावी समस्तः । शब्दं कुर्वन्ति शब्दायन्ते । निर्ह्रादी गम्भीरः ॥
MD 57 मन्दाक्रान्ता
प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान्विशेषान्हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् । तेनोदीचीं दिशमभिसरेस्तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: प्रालेयाद्रेर्हिमवत उपतटं पर्यन्ते तांस्तान्विशेषांश्चरणन्यासादीनद्भुतानतिक्रम्योल्लङ्घ्य यत्कौञ्चाद्रिच्छिद्रं हंसानां द्वारभूतं विद्यते तेन रन्ध्रेण त्वं कौबेरीमाशामभिसरेर्गच्छेः । तिर्यग्य आयामो विस्तारस्तेन शोभमानः । अतश्च बलिवचनोत्थितस्य विष्णो: श्यामश्चरण इवेत्युपमा । कीदृग्रन्ध्रम् । भृगुपतिः परशुरामस्तदीयस्य यशसो वर्त्म प्रसरणमार्गः । तेन क्रौञ्चस्य भज्यमानत्वात् । प्रालेयं हिमम् । अतिक्रम्येति परावरयोगे चेति क्त्वा ॥
MD 58 मन्दाक्रान्ता
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूतः प्रतिनिशमिव त्र्यम्बकस्याट्टहासः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: ऊर्ध्वमनन्तरं गत्वा कैलासाद्रेरतिथिः स्याः । तं गछेरित्यर्थः । कीदृशस्य । दशमुखभुजोच्छ्वासितप्रस्थसंधेः पौलस्त्यबाहुदलितसानुबन्धस्य । स हि तेन दर्पादुन्मूलयितुमिष्टोऽभूत् । तथा सुरललनानां दर्पणस्यादर्शनिभस्य । स्फाटिकत्वेन मुखावलोकनात् । यश्च कैरवधवलैरुन्नतैः शिखरैर्नभो व्याप्य स्थितः । अतश्चोत्प्रेक्षते । अनुक्षपं पुञ्जीभूतः शिवस्याट्टहास उद्यतस्मितमिव ॥
MD 59 मन्दाक्रान्ता
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य । लीलामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीमंसन्यस्ते सति हलभृतो मेचके वाससीव ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: त्वयि शिखरस्थिते सति तस्य कैलासस्यानिमिषलोचनदृश्यां भाविनीं शोभामुत्प्रेक्षेऽहम् । तस्य कस्येव । अंसन्यस्ते स्कन्धप्रावृते मेचके कृष्णे वस्त्रे हलधरस्येव । मेघस्य कालत्वात् । स्निग्धभिन्नाञ्जनाभेऽरूक्षपिष्टकज्जलनिभ इति मेघविशेषणम् । तस्य तु तत्क्षणच्छिन्नदन्तिदन्तखण्डवलक्षस्य । गौरोऽपि शुभ्रः ॥
MD 60 मन्दाक्रान्ता
हित्वा नीलं भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विहरेत्पादचारेण गौरी । भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलोऽस्याः सोपानत्वं कुरु सुखपदस्पर्शमारोहणेषु ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तस्मिंश्च केलिपर्वते कैलासे शिवेनालम्बितकरा पार्वती यदि पादचारेण चरणाभ्यां विहरेच्चङ्क्रम्येत तदस्यास्त्वमारोहणेषु सोपामत्वं कुर्याः । यतो भङ्गीभक्त्या तरंगविच्छित्या कल्लोलाकारेण विरचितदेहः । अत एव तत्सुखपदस्पर्शं पारुष्याभावाच्छीतलत्वाच्च चरणप्रीतिकारि । स्तम्भितं निश्चलीकृतमन्तरुदरे जलं येन । अन्यथा हि पादसादः स्यात् । भयंकरत्वादेव नीलं सर्पकटकं हित्वा त्यक्त्वा । पादाभ्यां चारो गमनं पादचारः ॥
Full Table of Contents