कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः:
कश्चिद्यक्षः पुण्यजनो रामगिर्याश्रमेषु चित्रकुटाचलतपोवनेषु वसतिं चक्रे व्यधात् । निजपुरीमलकामपहाय तत्र वासे कारणमाह । भर्तुः प्रभोर्धनदस्य शापेनास्तंगमितमहिमा नष्टतेजाः । कीदृशेन । कान्ताविरहगुरुणा प्रियाविरहदुःखेन । तथा वर्षभोग्यण' संवत्सरमनुभाव्येन । किमिति तेनास्य शापोऽदायीत्याह । स्वाधिकारप्रमत्तो निजव्यापारावलिप्तः । स हि जायायां व्यसनित्वात्स्वमधिकारमनपेक्षमाणो राजराजेन । तथैव तव वर्षं विरहोऽस्तु । महिमा ते नश्यत्विति शप्तः । रामाद्रिमतः स आययौ । कीदृशेष्वाश्रमेषु । जनकतनयास्नामपुण्योदकेषु सीतामज्जनपवित्रतोयेषु । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । राघवसंनिधानेऽपि सीतायाः प्रशंमा शृङ्गाराश्रयत्वेन काव्यस्य चिकीर्षितत्वात् । तथा स्निग्धा अपरुषा छायाप्रधानास्तरवो येष्विति सेव्यत्वकथनम् । वर्षं भोग्यो वर्षभोग्यः । काला अत्यन्तमयोगे चेति ममासः । रामगिरिरत्र चित्रकूटः । न तु ऋष्यमूकः । तत्र सीताया वासाभावात् । सर्वत्र मन्दाक्रान्ता वृत्तम् । प्रवासविप्रलम्भो रसः ॥
Morphemic Decomposition & Padaccheda
कश्चित्
कश्चित् [pron]
कान्ताविरहगुरुणा
कान्ता [f]
कान्ताविरहगुरुणा
विरह [m]
कान्ताविरहगुरुणा
गुरु [adj]
स्वाधिकारात्
स्व [adj]
स्वाधिकारात्
अधिकार [m]
प्रमत्तः
प्रमद् [4. Ā.]
शापेनास्तंगमितमहिमा
शाप [m]
शापेनास्तंगमितमहिमा
अस्तंगमय् [10. Ā.]
शापेनास्तंगमितमहिमा
महिमन् [m]
वर्षभोग्येण
वर्ष [mn]
वर्षभोग्येण
भुज् [6. P.]
भर्तुः
भर्तृ [m]
यक्षश्चक्रे
यक्ष [m]
यक्षश्चक्रे
कृ [2. Ā.]
जनकतनयास्नानपुण्योदकेषु
जनकतनया [f]
जनकतनयास्नानपुण्योदकेषु
स्नान [n]
जनकतनयास्नानपुण्योदकेषु
पुण्य [adj]
जनकतनयास्नानपुण्योदकेषु
उदक [n]
स्निग्धछायातरुषु
स्निग्ध [adj]
स्निग्धछायातरुषु
छाया [f]
स्निग्धछायातरुषु
तरु [m]
वसतिं
वसति [f]
रामगिर्याश्रमेषु
रामगिरि [m]
रामगिर्याश्रमेषु
आश्रम [mn]