Skip to main content
Search
Ch. 1 MD 1.26
Full Chapter
MD • Chapter 1: Complete Text

MD 26

Canonical Ref: MD 26
Metrical Form: मन्दाक्रान्ता
Sanskrit (Devanāgarī)
विश्रान्तः सन्व्रज वननदीतीरजातानि सिञ्चन्नुद्यानानां नवजलकणैर्यूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
वल्लभदेवः: तत्र विश्रान्तः सन्ननन्तरं त्वं यायाः । किं कुर्वन् । वननदी काननसरिन्नदीविशेषो वा । तत्कूलेभवान्युपवनानां यूथिकाजालकानि हरिणीगुल्मान्नवजलकणिरुक्षन् । पुष्पनावीमुखानां मालाकाराङ्गनामुखानां छायादानाद्धेतोः क्षणमात्रं परिचितः सुहृत् । तापापहरत्वात् । कीदृशानां मुखानाम् । कपोलयोर्यः स्वेदो घर्मस्तस्यापनयनेनोत्पुंसनेन या रुजा बाध उपमर्दस्तया क्लान्तकर्णोत्पलानां म्लानश्रवणकुवलयानाम् । रुजाचोत्पलानामेव । भिदादित्वादङ् । पुष्पाणि लुनन्तीति पुष्पलाव्यः । कर्मण्यण् ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
विश्रान्तः
Lemma: विश्रम्
POS: 1. Ā.
सन्
Lemma: अस्
POS: 2. P.
व्रज
Lemma: व्रज्
POS: 1. Ā. • Verb: व्रज
वननदीतीरजानां
Lemma: वन
POS: n
वननदीतीरजानां
Lemma: नदी
POS: f
वननदीतीरजानां
Lemma: तीर
POS: n
वननदीतीरजानां
Lemma: ज
POS: adj
निषिञ्चन्नुद्यानानां
Lemma: निषिच्
POS: 6. Ā.
निषिञ्चन्नुद्यानानां
Lemma: उद्यान
POS: n
नवजलकणैर्
Lemma: नव
POS: adj
नवजलकणैर्
Lemma: जल
POS: n
नवजलकणैर्
Lemma: कण
POS: m
यूथिकाजालकानि
Lemma: यूथिका
POS: f
यूथिकाजालकानि
Lemma: जालक
POS: n
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
Lemma: गण्ड
POS: mn
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
Lemma: स्वेद
POS: m
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
Lemma: अपनयन
POS: n
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
Lemma: रुजा
POS: f
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
Lemma: क्लम्
POS: 4. Ā.
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
Lemma: कर्ण
POS: m
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
Lemma: उत्पल
POS: mn
छायादानात्
Lemma: छाया
POS: f
छायादानात्
Lemma: दान
POS: n
क्षणपरिचितः
Lemma: क्षण
POS: m
क्षणपरिचितः
Lemma: परिचि
POS: 5. Ā.
पुष्पलावीमुखानाम्
Lemma: पुष्पलावी
POS: f
पुष्पलावीमुखानाम्
Lemma: मुख
POS: n
Canonical CTS URN Reference
Meghadūtam, MD 26. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (MD 25) All Verses in Chapter 1 Next Verse (MD 27) →