Skip to main content
Search
KS
Kumārasambhavam • Chapter 01

Canto 1

प्रथमः सर्गः

Canto 1 of Kumārasambhavam.

Total: 60 Verses • Citations: KS 1.1–60 • 1 Lexicon Terms • Page 2 of 2 (Verses 30 shown)
KS 1.31 उपजातिः
असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): असंभृतमिति । अथ सा पार्वती । अङ्गयष्टेरसंभृतमयत्नसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यतिरिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशव त्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रमाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरुपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः । तदुक्तम्- `कारणाभावे कार्योत्पतिर्विभावना` इति । प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तूक्तम् `स्यादङ्गयष्टिरित्येवविधमाभासरुपकम् ।` अन्वयः: अथ सा अङ्गयष्टेः असंभृतं मण्डनम्, अनासवाख्यं मदस्य करणं, कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं वयः प्रपेदे ।
KS 1.32 उपजातिः
उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् । बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उन्मीलितमिति ॥ नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । पीनजघनादिसंस्थानमित्यर्थः । तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया । शलाकयेत्यर्थः। `तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः` इति विश्वः । उन्मीलितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् । रुपमिति यावत् । चित्रमालेख्यमिव । सूर्यांशूभिर्भिन्नं विकसितमरविन्दं पद्ममिव चतस्त्रोऽस्त्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्त्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसंबन्ध इव स्वयं सिद्धस्यैवाङ्गसौष्ठवस्य यौवनप्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः अन्वयः: नवयौवनेन विभक्तं तस्या वपुः तूलीकया उन्मीलितं चित्रम् इव, सूर्यांऽशुभिः भिन्नम् अरविन्दम् इव चतुरस्त्रशोभि बभूव
KS 1.33 उपजातिः
अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ । आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अभ्युन्नतेति ॥ अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणान्निर्भरन्यासाद्धेतोः रागमन्तर्गतं लौहित्यम् । `रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु` इति शाश्वतः । उद्गिरन्तौ वमन्तौ । बहिर्निस्सारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेर्गौणार्थत्वान्न ग्राम्यतादोषः प्रत्युत गुण एव । यथाह दण्डी- `निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥` इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् । संचारिणीमित्यर्थः । स्थला विन्दश्रियमाजह्रतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः - `यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निमूढगुल्फौ निहतौ सा स्यान्नृपतिसंमता ॥` इति ।अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्दश्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालङ्कारः । सा च सम्बन्धेऽसम्बन्धलक्षणातिशयोक्त्यनुप्राणिताव्यवस्थामित्यनेन स्थलारविन्दस्य स्थैर्यसम्बन्धेऽप्यसम्बन्धाभिधानात्। निदर्शनालक्षणं तु- `असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥` इति अन्वयः: अभ्युन्नताङ्गुष्ठनखप्रभाभिः निक्षेपणात् रागम् उद्गिरन्तौ इव तच्चरणौ पृथिव्याम् अव्यवस्यां स्थलाऽरविन्दश्रियम् आजह्रतुः ।
KS 1.34 उपजातिः
सा राजहंसैरिव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नूपुरसिञ्जितानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति ॥ प्रत्युपदेशलुब्धैः । `गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते ।` इति न्यायादिति भावः । तदेव व्यनक्ति-नूपुरसिञ्जितान्यादित्सुभिरादातुमिच्छुभिः । मञ्जीरसिञ्जितमञ्जुकूजितोपदेशमिच्छद्भिरित्यर्थः । राजहंसैः संनताङ्गी । कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । `अञ्चेः पूजायाम्` (पा.7|2|53) इतीडागमः । लीला विलासक्रिययोः ` इत्यमरः` । गतेषु विषयेषु व्यवीयतेव विनीता किमु । अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा अन्वयः: प्रत्युपदेशलुब्धैः नूपुरसिञ्जितानि आदित्सुभिः राजहंसैः संनताङ्गी सा लीलाञ्चितविक्रमेषु गतेषु व्यनीयत इव ।
KS 1.35 इन्द्रवज्रा
वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वृत्तेति । वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे । गोपुच्छाकार इत्यर्थः । वृत्ते च ते अनुपूर्वे च वृत्तानुपूर्वे नातिदीर्धे च । महाविभाषया न समासः । नञो विशेषणत्वं चशब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । `जङ्घा तु प्रसृता` इत्यमरः (अ.को.2|6|73) । सृष्टवतो निर्मितवतो विधातुः स्त्रष्टुः शेषाङ्गनिर्माणविधौ । जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनः संपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षणं तूक्तम् (२५) श्लेक टीo। यत्न आसेव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां न लावण्योपादानकत्वात्पूर्वसंपादितस्य च जङ्घार्थमेव कार्त्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये दज्जङ्गे इति भावः । आसेति बभूवार्थे `तिङन्तप्रतिरुपकमव्ययम्` इत्याह शाकटायनः । वल्लभस्तु- `न तिङन्तप्रतिरुपकमव्ययम्` `अस्तेर्भूः` (पा.2|4|52) इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् । किंतु कवीनामयं प्रामादिकः प्रयेगः` इत्याह । वामनस्तु- `अस गतिदोप्त्यादानेष्वितिः धातोर्लिटि रुपमिदम्` इत्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे आस दिदीपे । प्रवृत्त इत्यर्थः अन्वयः: वृत्ताऽनुपूर्वे न च अति दीर्धे शुभे तदीये जङ्घे सृष्टवतः विधातुः शेषाङ्गनिर्माणविधौ उत्पाद्ये लावण्ये यत्न आस इव ।
KS 1.36 इन्द्रवज्रा
नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः । लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नागेन्द्रेति । नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात्कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः लोके परिणाहि वैपुल्ययुक्तम् । `परिणाहो विशालता` इत्यमरः (अ.को.2|6|115) । रुपं लब्ध्वापि । अपिशब्दात्करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरुपमानबाह्या जाता उपमानक्रियानर्हा बभृवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्यमिति भावः अन्वयः: नागेन्द्रहस्ताः त्वचि कर्कशत्वात्, कदलीविशेषाः एकान्तशैत्यात् लोके परिणाहि रुपं लब्ध्वा अपि तदूर्वोः उपमानबाह्याः जाताः ।
KS 1.37 उपजातिः
एतावता नन्वनुमेयशोभं काञ्चीगुणस्थानमनिन्दितायाः । आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एतावतेति । अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बमेतावता नन्वेतावतैव ॥ `प्रश्नावधारणानुज्ञानुनया मन्त्रणे ननु` इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्तप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । `त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः` इत्याह वामनः । पश्चादादौ नौःस्पृह्येऽपि पश्चात् । तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः शिवः । `गिरौ डश्छन्दसि` इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते। अथवा गिरिः कैलासोऽस्यास्तीति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्तात्कर्मणि क्तः । `रुहः पोऽन्यतरस्याम्` (पा.7|3|43) इति हकारस्य पकारः । गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायिसौन्दर्यं गिरिशाङ्कारुढत्वाद्व्द्यतिरेकेण नार्यन्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण अन्वयः: यत् पश्चात् गिरिशेन अनन्यनारीकमनीयम् अङ्कम् आरोपितम्, अनिन्दितायाः काञ्चीगुणस्थानम् एतावता अनुमेयशोभि ननु ।
KS 1.38 उपजातिः
तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः । नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्य इति ॥ नीवीं वस्त्रग्रन्थिम् । `स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च` इत्यमरः अतिक्रम्यातीत्य नतं निम्नं नाभिरन्ध्रं प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सितेतरस्यासितस्य । इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । तस्या इत्यनुवृत्तौ पुनस्तच्छब्दोपादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा तस्या नीव्या मेखला तन्मेखला तत्र तदवस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । `ज्वालाभासोर्नपुंस्यर्चि` इत्यमरः अन्वयः: नीवीम् अतिक्रम्य नतनाभिरन्ध्रं प्रविष्टा तन्वी तस्या नवलोमराजिः सितेतरस्य तन्मेखलामध्यमणेः अर्चिः इव रराज ।
KS 1.39 उपजातिः
मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मध्येनेति ॥ `वेदिः परिष्कृता भूमिः` इत्यमरः । वेदिविलग्नमध्या वेदिवत्कृशमध्या । तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा अन्वयः: वेदिविलग्नमध्या सा बाला मध्येन चारु बलित्रयं कामस्य आरोहणार्थं नवयौवनेन प्रयुक्तं सोपानम् इव बभार ।
KS 1.40 उपजातिः
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अन्योन्येति । अन्योन्यं परस्परम् । `कर्मव्यतिहारे सर्वनाम्ना द्वे वाच्ये` इति द्विरुक्तिः । `समासवच्च बहुलम्` इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्यः । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनव्दयं तथा तेन प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरुपवर्णनं तस्य स्तनव्दयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । `अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये` इत्यमरः (अ.को.3|3|195) । अत्र संबन्धेऽसंबन्धरुपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंबन्धेऽप्यसंबन्धाभिधानादिति अन्वयः: अन्योन्यम् उत्पीडयत् पाण्डु उत्पलाक्ष्याः स्तनव्दयं तथा प्रवृद्धं, श्याममुखस्य तस्य मध्ये यथा मृणालसूत्रान्तरम् अपि अलभ्यम् ।
KS 1.41 उपजातिः
शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः । पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शिरीषेति ॥ तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्यं मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः । यौ बाहू पराजितेनापि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जूकृतौ । कण्ठालिङ्गनं प्रापितावित्यर्थः ।थ तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारोपितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयागात्परिणामालंकारः अन्वयः: यौ (बाहू) पराजितेन अपि मकरध्वजेन हरस्य कण्ठपाशौ कृतौ, (अतः) तदीयौ बाहू शिरीपुष्पाऽधिकसौकुमार्यौ इति मे वितर्कः ।
KS 1.42 इन्द्रवज्रा
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कण्ठस्येति ॥ स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । `वर्तुलं निस्तलं बृत्तं बन्धुरं तून्नतानतम्` । `कलापो भूषणे बर्हे तूणीरे संहतावपि` इति चामरः । अन्योन्यशोभाजननाद् भूषणभूष्यभावोऽलंकारालंकार्यभावः साधारणः समानो बभूव । उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवतुरित्यर्थः । अत्र कण्ठमुक्ताकलापयोः शोभक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालंकारः । तदुक्तम्- `परस्परं क्रियाजननमन्योन्यम्`इति अन्वयः: स्तनबन्धुरस्य तस्याः कण्ठस्य निस्तलस्य (तस्याः) मुक्ताकलापस्य च अन्योन्यशोभाजननात् भूषणभूष्यभावः साधारणो बभूव ।
KS 1.43 उपजातिः
चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चन्द्रमिति ॥ लोला चपला । परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्रात्पा सती पद्मगुणान्सौगन्ध्यादीन्न भुङ्क्ते नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । `अभिख्या नामशोभयोः` इत्यमरः (अ.को.3|3|164) । अमृतवदानन्दिनीं न भुङ्क्ते । उमामुखं प्रतिपद्य तु व्दे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिमानन्दमवाप । तत्रोभयगुणसंभवादिति भावः । अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमेयस्योमामुखस्याधिकगुणवत्त्वोक्त्या व्यतिरेकालंकारः । तदुक्तम्- `भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः` इति अन्वयः: लोला लक्ष्मीः चन्द्रं गता (सती) पद्मगुणान् न भुङ्त्ते, पद्माश्रिता (सती) चान्द्रमसीम् अभिख्यां न भुङ्क्ते, उमामुखं तु प्रतिपद्य द्विसंश्रयां प्रीतिम् अवाप ।
KS 1.44 उपजातिः
पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुष्पमिति ॥ पुष्पं पुणडरीकादिकं प्रवाले बालपल्लव उपहितं निहितं स्याद्यदि । `प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे` इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले वा विद्रुमे तिष्ठतीति स्फुटविद्रुमस्थं स्यद्यदि ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । अत्र `माषाणामश्नीयात्` इति वत्सम्बन्धमात्रविवक्षया षष्ठी । अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबन्धोक्त्यातिशयोक्तिः । `सा च संभावना` इत्यलंकारसर्वस्वकारः । विशेषस्तु पुष्पमुक्ताफलयोरुपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालंकारः । तदुक्तम्-- `उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः` इति लक्षणात् । स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति अन्वयः: पुष्पं प्रवालोपहितं स्यात् यदि, वा मुक्ताफलं स्फुटविद्रुमस्थ स्यात् यदि, ततः विशदस्य ताम्रौष्ठपर्यस्तरुचः तस्याः स्मितस्य अनुकुर्यात् ।
KS 1.45 उपजातिः
स्वरेण तस्याममृतस्रुतेव प्रजल्पितायामभिजातवाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्वरेणेति । अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याममृतस्त्रुतामृतस्त्राविणेव । क्विप् । स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्त्तरि क्तः । अन्यैः काकादिभिः पुष्टान्यपुष्टा कोकिलापि । मुख्यया वृत्या जातिवचनत्वभावान्ङीबभावः । ताड्यमाना वाद्यमाना विषमबद्धा तन्त्रीर्वितन्त्रीरिव अवितॄस्तृतन्त्रिभ्यः- ईः ` इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न `हल्ङ्याब्भ्यः-` इति सुलोपः । तदुक्तम्- अवोलक्ष्मीतरीतन्त्रीधीह्रीश्रीणामुणादिषु । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन ॥ एते ङीबन्ता न भवन्तीत्यर्थः । श्रोतुर्जनस्य प्रतिकूलशब्दाः कर्णकठोरनादा भवन्तीति शेषः अन्वयः: अभिजातवाचि तस्याम् अमृतस्त्रुता इव स्वरेण प्रजल्पितायां सत्याम् अन्यपुष्टा अपि ताड्यमाना वितन्त्री इव श्रोतुः प्रतिकूलशब्दाः ।
KS 1.46 उपेन्द्रवज्रा
प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रवातेति । प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो विर्विशेषं निर्भेदं, तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितमायताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो गृहीतमभ्यस्तं नु । अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् । गृहीतं नु । अत्र विवक्षितस्य परस्पग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे अन्वयः: प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या तया मृगाऽङ्गनाभ्यो गृहीतं नु ? (वा) मृगाङ्गनाभिः ततो गृहीतं नु ?
KS 1.47 उपजातिः
तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरानतलेखयोर्या । तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति । आयतलेखयोर्दीर्घरेखयोस्तस्याः पार्वत्या भ्रुवोः संबन्धिनी शलाकयाञ्जनेन निर्मितैव स्थिता या कान्तिर्लीलाचतुरां विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह सौन्दर्यातिशयोक्तिः अन्वयः: आयतलेखयोः तस्या भ्रुवोः शलाकाऽञ्जननिर्मिता इव या कान्तिः, लीलाचतुरां तां वीक्ष्य अनङ्गः स्वचापसौन्दर्यमदं मुमोच ।
KS 1.48 उपजातिः
लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्युर्वालप्रियत्वं शिथिलं चमर्यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लज्जेति । तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि । संशयाभावोऽसंशयम् । सन्देहो नास्तीत्यर्थः । पर्वतराजपुत्र्याः । `शार्ङ्गरवाद्यञो ङीन्` (पा.4|1|73)इति ङीन् । तं प्रसिद्धं केशपाशं केशकलापम् । `पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे` इत्यमरः (अ.को.2|6|99) । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषाः बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् । प्रियबालत्वमित्यर्थः । आहिताग्न्यादिपाठाव्दा परनिपातः । `त्वतलोर्गुणवचनस्य` इति पुंवद्भावः । शिथिलं कुर्युः । निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहेतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलङ्कारः । तदुक्तम्-- `हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्` इति अन्वयः: तिरश्चां चेतसि लज्जा स्यात् यदि, असंशयं पर्वतराजपुत्र्याः तं केशपाशं प्रसमीक्ष्य चमर्यः बालप्रियत्वं शिथिलं कुर्युः ।
KS 1.49 उपजातिः
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सर्वोपमेति । किंबहुना सा पार्वती विश्वसृजा विधात्रैकत्र तिष्ठतीत्येक्स्थं तस्य सौन्दर्यस्य । सर्ववस्तुगतस्येत्यर्थः । दिदृक्षयेव प्रयत्नाद्यथाप्रदेशं क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाद्युपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । दिदृक्षयेवेति फलोत्प्रेक्षा दर्शनार्थित्वाद्विश्वसृज इति अन्वयः: सा विश्वसृजा एकस्थसौन्दर्यदिदृक्षया इव प्रयत्नात् यथा प्रदेशं विनिवेशितेन सर्वोपमाद्रव्यसमुच्चयेन निर्मिता ।
KS 1.50 उपजातिः
तां नारदः कामचरः कदा चित्कन्यां किल प्रेक्ष्य पितुः समीपे । समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति । कामेनेच्छया चरतीति कामचरो नारदः । कदाचित्पितुर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेक्ष्य किल प्रेम्णा न त्वन्यथा हरस्य शिवस्यार्धं हरतीत्यर्धहरा । `हरतेरनुद्यमनेऽच्` (पा.3|2|9) हत्यच्प्रत्ययः । शरीरास्यार्धहराम् शरीरार्धहराम् । कुलधुरन्धरादिवदवयवद्वारा समुदायविशेषकत्वात्समासः । अन्यथा त्वर्धस्य समप्रविभागवचनत्वादशरीरेति स्यात् । एकवधूमसपत्नीकां भार्याम् । `पूर्वकाल--` इत्यादिना समासः । भवित्रीं भाविनीं समादिदेश । हरस्यार्धाङ्गहारिण्येकपत्नी भविष्यतीत्यादिष्टवानित्यर्थः अन्वयः: कामचरो नारदः कदाचित् पितुः समीपे कन्यां तां प्रेक्ष्य किल प्रेम्णा हरस्य शरीराऽर्द्धहराम् एकवधूं भवित्रीं समादिदेश ।
KS 1.51 उपजातिः
गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गुरुरिति । गुरुः पिता । `गुरू गीःपतिपित्राद्यौ` इत्यमरः । अतो नारदवचनाद्धेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । `वरौ ना रूपजामात्रोः` इति वैजयन्ती । तस्थौ । वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निबंन्ध इत्यत आह-- ऋत इति । तथाहि मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकादृते कृशानुं विना `अन्यारादितरे--` इत्यादिना पञ्चमी । अपराणि तेजांसि सुवार्णादीनि नार्हन्ति । न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः अन्वयः: अतः गुरुः अस्याः प्रगल्भे वयसि अपि निवृत्ताऽन्यवराऽभिलाषः तस्थौ । हि मन्त्रपूतं हविः कृशानोः ऋते अपराणि तेजांसि न अर्हन्ति ।
KS 1.52 उपजातिः
अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अयाचितारमिति । अद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे । तथाहि साधुः सज्जनः । `साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्` इति विश्वः । अभ्यर्थनाभङ्गभयेन याच्ञावैफल्यभीत्येष्टेऽप्यर्थे विषये माध्यस्थ्यमौदासीन्यमवलम्बते अन्वयः: अद्रिः अयाचितारं देवदेवं सुतां ग्रहयितुं न शशाक । हि साधुः अभ्यर्थनाभङ्गभयेन इष्टे अर्थे अपि माध्यस्थ्यम् अवलम्बते ।
KS 1.53 उपजातिः
यदैव पूर्वे जनने शरीरं सा दक्षरोषात्सुदती ससर्ज । तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यदेति । शोभना दन्ता यस्याः सा सुदती । `वयसि दन्तस्य दतृ` (पा.5|4|141) इति दत्रादेशः । `उगितश्च` (पा.4|1|6) इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि । `पूर्वादिभ्यो नवभ्यो वा` (पा.7|1|16) इति स्मिन्नादेशविकल्पः । `पूर्वज्वलने` इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ । यदा यस्मिन्काले दक्षरोषाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशुनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् । अपरिग्रहोऽपत्नीकोऽभूत् । स्त्र्यंतरं न परिजग्राहेत्यर्थः `पत्नीपरिजनादानमूलशापाः परिग्रहाः` इत्यमरः अन्वयः: सुदती सा पूर्वे जनने यदा दक्षरोषात् शरीरं ससर्ज, तदा प्रभृति एव पशूनां पतिः विमुक्तसङ्गः सन् अपरिग्रहः अभूत् ।
KS 1.54 उपजातिः
स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु । प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किं चित्क्वणत्किंनरमध्युवास ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति । कृ त्तिवासाश्चर्माम्बरः । `अजिनं चर्म कृत्तिः स्त्री` इत्यमरः (अ.को.2|7|50) । यतात्मा नियतचित्तः सः पशुपतिस्तपसे तपोर्थं गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् । कस्तूरीमृगसंचारादिति भावः । `मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्` इत्यमरः (अ.को.2|7|50) । क्बणन्तो गायन्तः किंन्नरा यस्मिंस्तत्तथोक्तम् । किंचित्किमपि हिमाद्रेः प्रस्थं सानुमध्युवास । कुत्रचित्प्रस्थ उवासेत्यर्थः । `उपान्वध्याङ्वसः` (पा.1|4|48) इत्याधारस्य कर्मत्वम् । प्रस्थोऽस्त्री सानुमानयोः ईत्यमरः अन्वयः: कृत्तिवासाः यतात्मा स तपसे गङ्गाप्रवाहोक्षितदेवदारु मृगानाभिगन्धि क्वणत्किन्नरं किञ्चित् हिमाद्रेः प्रस्थम् अध्युवास ।
KS 1.55 उपजातिः
गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः । मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गणा इति ॥ गणाः प्रमथगणाः । `गणाः प्रमथसंख्यौघाः` इति वैजयन्ती । नमेरुप्रसवावतंसाः सुरपुंनागकुसुमशेखराः । `नमेरुः सुरपुंनागः` इति विश्वः । स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः । प्रशंसायां मतुप् । भूर्जत्वचो भूर्जवल्कलानि दधानाः । वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैर्विच्छुरिता अनुलिप्ताश्च सन्तः । शिलायां भवं शैलेयम् । गन्धौषधिविशेषः । शिलायाः `स्त्रीभ्यो ढक्` (पा.4|1|120) इति भवार्थे ढक् । `शिलाजतु च शैलेयम्` इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेषु निषेदुः ।उपविविशुरित्यर्थः अन्वयः: गणा नमेरुप्रसवाऽवतंसाः स्पर्शवतीः भीर्जत्वचो दधानाः मनःशिलाविच्छुरिताः (सन्तः) शैलेयनद्धेषु शिलातलेषु निषेदुः ।
KS 1.56 उपजातिः
तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् । दृष्टः कथं चिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तुषारेति । तुषारसंघाता हिमघनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पेण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्मेतैर्गवयैर्गोसदृशमृगविशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तीति ककुद्मान्वृषभोऽसोढः सिंहानां ध्वनिर्येंन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद । जगर्जेत्यर्थः । स्वभावोक्तिरलङ्कारः । तदुक्तम्-- स्वभावोक्तिरसौ चारु यथावव्दस्तुवर्णन्म् इति अन्वयः: तुषारसङ्घातशिलाः खुराऽग्रैः समुल्लिखन् दर्पकलः विविग्नैः गवयैः कथंचित् दृष्टः ककुद्मान् असोढसिंहध्वनिः (सन्) उन्ननाद ।
KS 1.57 उपजातिः
तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः । स्वयं विधाता तपसः फलानाम्केनापि कामेन तपश्चचार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । तपसः फलानामिन्द्रत्वादीनां स्वयं विधाता जनयिता । दातेत्यर्थः । अष्टो मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । `भूतार्कचन्द्रयज्वानो मृर्तयोऽष्टौ प्रकीर्तिताः` । इति तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चक्रे । `प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते` इति न्यायात्कामेनेत्युक्तम् । तस्यावाप्तसमस्तकामत्वात्केनापीत्युक्तम् अन्वयः: तपसः फलानां स्वयं विधाता अष्टमूर्तिः तत्र स्वम् एव मूर्त्यन्तरं समित्समिद्धम् अग्निम् आधाय केन अपि कामेन तपः चचार ।
KS 1.58 उपजातिः
अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा । आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनर्घ्येति । अद्रीणां नाथोऽद्रिनाथो हिमवान् । अर्घ मूल्यमर्हदीत्यर्घः । `मूल्ये पूजाविधावर्घः` इत्यमरः (अ.को.3|3|33) । `दण्डादिभ्यो यः` इति यप्रत्ययः । अर्घ्यो न भवतीत्यनर्घ्यस्तमनर्घ्यम् । अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । `मतिबुद्धिपूजार्थेभ्यश्च` (पा.3|2|188) इति वर्तमाने क्तः । `क्तस्य च वर्तमाने ` इति षष्ठी । तमीश्वरमनर्घ्येण पूजार्थोदकेन । ` पदार्घ्याभ्यां च ` इति यत् प्रत्ययः । षट् तु त्रिष्वर्घ्यमघर्थे पाद्यं पादाय वारिणि` इत्यमरः (अ.को.3|3|33) । अर्चयित्वा पूजयित्वास्येश्वरस्याराधनाय सखीभ्यां जयाविजयाभ्यां समेतां प्रयतां नियतां तनूजां सुतां समादिदेशाज्ञापयामास अन्वयः: अद्रिनाथः अनर्घ्यं स्वर्गौकसाम् अर्चितं तम् अर्घ्येण अर्चयित्वा अस्य आराधनाय सखीसमेतां प्रयतां तनूजां समादिदेश ।
KS 1.59 उपजातिः
प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने । विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रत्यर्थीति । गिरीशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिपक्षभूतामपि । सुप्सुपेति समासः । श्रोतुमिच्छन्तीं शुश्रूषमाणां सेवमानाम् । सेवका हि सेव्ये दत्तकर्णा भवन्ति । इच्छार्थे सन्प्रत्ययः ।`ज्ञाश्रुस्मृदृशां सनः` (पा.1|3|57) इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गीचकार । न प्रतिषिद्धवानित्यभिप्रायः । न चैतावता धीरस्य कश्चिद्विकार इत्याशयः । धीरत्वमेवार्थान्तरन्यासेनाह- विकारेति । विकारस्य प्रकृतेरन्यथात्वस्य हेतौ स्त्रीसंनिधानादिकारणे सति विद्यमानेऽपि येषां चेतांसि न विक्रयन्ते न विकृर्ति नीयन्ते त एव धीराः । `विक्रियन्ते` इति कर्मणि लट् अन्वयः: गिरिशः समाधेः प्रत्यर्थिभूताम् अपि शुश्रूषमाणां ताम् अनुमेने । विकारहेतौ सति येषां चेतांसि न विक्रियन्ते, ते एव धीराः ।
KS 1.60 मालिनी
अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अवचितेति । सुकेशी शोभनमूर्धजा । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्` (पा.4|1|54) इति ङीष् । सा पार्वत्यवचितानि लूनानि बलिपुष्पाणि पूजाकुसुमानि यथा सा वेदेर्नियमवेदिकायाः संमार्गे संमार्जने दक्षा नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चोपेनेत्र्यानेत्री सती तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः । `पादा रश्म्यङ्घ्रितुर्यांशाः` इत्यमरः (अ.को.3|3|97) । नियमितपरिखेदा निवर्तितपरिश्रमा सत्यहन्यहनि प्रत्यहम् । `अव्‌ययं विभक्तिसमीपसमृद्धी-` त्यादिना नियतार्थेऽव्ययीभावः नपुंसकादन्यतरस्याम् इत्यच्प्रत्ययः । गिरिशमुपचचार शुश्रूषांचक्रे अन्वयः: सुकेशी सा अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां च उपनेत्री (सती) तच्छिरश्चन्द्रपादैः नियमितपरिखेदा (सती) प्रत्यहं गिरिशम् उपचचार ।
Full Table of Contents Next (Ch. 2) →