असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
असंभृतमिति । अथ सा पार्वती । अङ्गयष्टेरसंभृतमयत्नसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यतिरिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशव त्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रमाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरुपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः । तदुक्तम्- `कारणाभावे कार्योत्पतिर्विभावना` इति । प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तूक्तम् `स्यादङ्गयष्टिरित्येवविधमाभासरुपकम् ।`
अन्वयः:
अथ सा अङ्गयष्टेः असंभृतं मण्डनम्, अनासवाख्यं मदस्य करणं, कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं वयः प्रपेदे ।
Morphemic Decomposition & Padaccheda
असंभृतं
असंभृत [adj]
मण्डनम्
मण्डन [n]
अङ्गयष्टेर्
अङ्ग [n]
अङ्गयष्टेर्
यष्टि [fn]
अनासवाख्यं
अनासव [m]
अनासवाख्यं
आख्या [f]
करणं
करण [n]
मदस्य
मद [m]
कामस्य
काम [m]
पुष्पव्यतिरिक्तम्
पुष्प [n]
पुष्पव्यतिरिक्तम्
व्यतिरिच् [7. P.]
अस्त्रं
अस्त्र [mn]
बाल्यात्
बाल्य [n]
परं
पर [pron]
साथ
तद् [pron]
साथ
अथ [ind]
वयः
वयस् [n]
प्रपेदे
प्रपद् [4. P.]