४. तत्रैव वैविध्यं यथा—
तीए दंसणसुहए पणअक्खलणजणिओ मुहम्मि मणहरे।
रोसो वि हरइ हिअअं मअपंको व्व मललंछणंमि णिसण्णो॥ १५३॥
NOTES pg=1347! १—३. एतत्त्रितयमस्मत्कृता लोपपूर्त्तिः।
{तस्या दर्शनसुभगे प्रणयस्खलनजनितो मुखे मनोहरे।
रोषोऽपि हरति हृदयं मदपङ्क इव मृगलाञ्छने निषण्णः॥}
५. मानप्रकर्षो यथा—(गास. ६.६४)
'ण वि तह अणालंवती'॥ १५४॥ (पृ.१३४०)
६. तत्रैव वैविध्यं यथा—(रत्ना. ३.१५)
समारूढप्रीतिप्रणयबहुमानात् प्रतिदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया।
प्रिया मुञ्चत्यद्य ध्रुवमसहना जीवितमसौ प्ररूढस्य प्रेम्णः स्खलितमविषह्यं हि भवति॥ १५५॥
७. मानसम्पर्को यथा—(रत्ना. २.२१)
भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेद॥ १५६॥
इत्यादि। (पृ. ८८८)
८. तत्रैव वैविध्यं यथा—
तदेवाजिह्माक्षं मुखमविशदास्ता गिर इमाः स एवाङ्गक्षेपो मयि सरसमाश्लिष्यति तनुम्।
यदुक्तप्रत्युक्तं तदपटु शिरःकम्पनपरं प्रिया मानेनाहो पुनरपि१ कृता मे नववधूः॥ १५७॥
९. मानस्यागमो यथा—(गास. १.८८)
जाणइ जाणावेउं अणुणअ—विद्दविअ—माणपरिसेसं।
पइरिक्कम्मि वि विणआवलंहणं स च्चिअ कुणंती॥ १५८॥
(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
प्रतिरिक्तेऽपि विनयावलम्बनं सैव कुर्वती॥)
१०. तत्रैव वैविध्यं यथा—
कुप्यत्यकस्मात् कुपितापि रम्या स्वयं प्रसादं समुपैति पश्चात्।
स्वयं प्रसन्नेति बिभर्ति लज्जामतूर्यकं प्रेक्षणकं प्रिया मे॥ १५९॥
NOTES pg=1348! १. पुनरवीति राघवजोशेरौ।
११. मानस्य पुनः प्रादुर्भावो यथा—
तुच्छीकृतः किमपि संवृतसम्भ्रमेण मन्युः/मन्ये पुनर्बहुलतां गत एष मन्युः।
(कुर्वन्ति किन्तु कुचकुड्मलमध्य-) लम्बामेकावलीमिव यदश्रुकणाः पतन्तः॥ १६०॥
१२. तत्रैव वैविध्यं यथा—