(गृह्यन्त आत्मनैव कृतापराधा अपि कामिनीमिः प्रियतमाः।
किमिति शिक्षयन्नपराध्यति, प्रियं करोति मधुमदः॥)
२. त्रासो यथा—(हरिवि.)
चंदामअ-पडिजीविअ-कवाल-मुक्क-ट्टहास-भीआए।
गोरीए माण-विघडण-घडंत-देहो हरो जअइ॥ ३४४॥
(चन्द्रामृतप्रतिजीवितकपालमुक्ताट्टहासभीतायाः।
गौर्या मानविघटनघटमानदेहो हरो जयति॥)
३. भयं यथा—(उरा. १.१)
पौलस्त्यपीनभुजसम्पदुदस्यमान— कैलाससम्भ्रमविलोलदृशः प्रियायाः।
श्रेयांसि वो दिशतु निह्नुतकोपचिह्न— मालिङ्गनोत्पुलकमासितमिन्दुमौलेः॥ ३४५॥
४. ऋतूपगमो यथा—
तान्येतानि शिखण्डिताण्डवगुरूनम्भोधरानम्बरे तन्वानानि दिनानि नूनममृतस्यन्दीनि वन्दामहे।
उद्गाढा नवनीलनीरजदृशामत्यन्तमायामिनो भिद्यन्ते स्वयमेव येषु विषमा मानग्रहग्रन्थयः॥ ३४६॥
५. उपवनविकसो यथा—(गास. ७७९वे.)
कारणगहिओ वि मए माणो एमेअ जं समोसरिओ।
अत्थक्क—फुल्लिअंकोल्ल तुज्झ तं मत्थए पडउ॥ ३४७॥
(कारणगृहीतोऽपि मया मान एवमेव यत्समपसृतः।
अकाण्डपुष्पिताङ्कोल तव तत् मस्तके पततु॥)
६. सुरभिवनवातः यथा—(लीलावती ३२)
अह णवर तत्थ दोसो जं गिम्ह-पओस-मल्लिआमोओ।
अणुणअसुहाइ माणंसिणीण भोत्तुं च्चिअ ण देइ॥ ३४८॥
(अथ केवलं तत्र दोषः यत् ग्रीष्मप्रदोषमल्लिकामोदः।
अनुनयसुखानि मनस्विनीनां भोक्तुमेव न ददातु॥)
७. कोकिलाद्यालापो यथा—
कलकंठीकलरओम्मूलिअस्स माणस्स किंसुअतरुअस्स।
भूइपतओ होइ महुंमि माहवीभमरझंकारो॥ ३४९॥
(कलकण्ठीकलरवोन्मूलितस्य मानस्य किंशुकतरुकस्य।
भूमौ पततो भवति मधौ माधवीभ्रमरझङ्कारः॥)
८. प्रभातं यथा—(गास. १.२९)
अज्ज सहि राइसेसे माणमहूसव—सुहच्छिआरद्धे।