Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 30

Prakāśa 30: वैधर्म्यतो-मानप्रकाशः

प्रकाशः 30 • वैधर्म्यतो-मानप्रकाशः

Prakāśa 30 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1822 Verses • Citations: SP 30.1–1822 • 4 Lexicon Terms • Page 49 of 61 (Verses 30 shown)
पुरा येनेयं मे चिरमनुसृता वाक्यपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः॥ ३२२॥
सखि! स सुभगो मन्दः स्‍नेहो मयीति न मे व्यथा विधिविरचितं यस्मात् सर्वो जनः सुखमश्‍नुते।
मम तु मनसः सन्तापोऽयं जने विमुखेऽपि यत् क्षणमपि हतव्रीडं चेतो न याति विरागिताम्॥ ३२३
ज्योतिर्भ्यस्तदिदं तमस्समुदितं जातोऽयमद्‍भ्यशिशखी पीयूषादिदमुत्थितं विषमयं छायाप्‍तजन्मातपः।
को नामास्य भवेत् प्रशान्तिषु विधिर्बाढं द्रढीयानयं ग्रन्थिर्यत् प्रियतोऽपि विप्रियमिदं सम्यक्कृतं सान्त्वनैः॥ ३२४॥
७. प्रिये तद्दोषापादने यथा—(गास. ९०४वे.)
भण भण जं जं पडिहाइ तुज्झ तं तं सहारि/मिमो अम्हे।
असहत्तणं च जीअं च वल्लभे दोविइ ण घडंति॥ ३२५॥
(भण भण यद् यत् प्रतिभाति तव तत् तद् सहामहे वयम्।
असहमानत्वं च जीवितं च वल्लभे द्वावपि न घटेते॥)
॰ ॰ ॰ गहिक्खे वअणं सह तीण तण्णा।
हणओसि पिओ जीअं चिअ कलिसिअं पि मह पिअं॥ ३२६॥
अवरज्झसु एत्ताहे वीसद्धो च्‍चिअ जणम्मि णिप्फलमउए।
काउं णिक्‍किव दुक्खं पत्तिअ सहउ अ एक्कस्स च्‍चिअ हिअअं॥ ३२७॥
{अपराध्यस्वेदानीं विश्वस्त एव जने निष्फलमृदुके।
कृत्वा निष्कृप दुःखं प्रतीहि सहतां चैकस्यैव हृदयम्॥}
सोत्तुं सुहं ण लब्भइ अव्वो पेम्मेण वंकविसमस्स।
दुग्घडिअ—मंचअस्स व खणे खणे पाअपडणेण॥ ३२८॥
(स्वप्‍तुं सुखं न लभ्यते अंबो प्रेम्णा वक्रविषमस्य।
दुर्घटितमञ्चस्येव क्षणे क्षणे पादपतनेन॥)
१०. प्रियविषयो यथा—(गास. ९३१वे.)
ता सोक्खं ताव रई ता रणरणअस्स णत्थि ओआसो।
जा दुक्खेक्कणिहाणे ण होइ बहुवल्लहे पेम्मं॥ ३२९॥
(तावत्सौख्यं तावद् रतिस्तावद् रणरणकस्य नास्त्यवकाशः।
यावद् दुःखैकनिधाने न भवति बहुवल्लभे प्रेम॥)
← Previous (Ch. 29) Full Table of Contents Next (Ch. 31) →