Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 30

Prakāśa 30: वैधर्म्यतो-मानप्रकाशः

प्रकाशः 30 • वैधर्म्यतो-मानप्रकाशः

Prakāśa 30 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1822 Verses • Citations: SP 30.1–1822 • 4 Lexicon Terms • Page 39 of 61 (Verses 30 shown)
उत्पश्यामि अलज्जाशील! अद्यापि तं ग्रामपङ्कम्॥)
निर्मग्नेन मयाम्भसि स्मरभरादालिस्समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे! मुधा ताम्यसि।
इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचश्शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः॥ २५९॥
अग्घइ गोत्तक्खलणे पच्चक्ख-णिगलिअ-संगलंत-विसाओ।
एंतणिअत्तिअ—बाहो णेत्त—णिअत्त—दइ—उत्तरो जुअइजणो॥ २६०॥
(अर्घति गोत्रस्खलने प्रत्यक्षनिर्गलद्/सङ्गलद्‌विषादः।
एतन्निवर्तितबाष्पो नेत्रनिवृत्तदयितोत्तरो युवतिजनः॥)
मानोपलक्षणानि—'अवज्ञानम्, अत्यादरः, विकृतवीक्षणम्, अनालोकः, असम्भाषणं, वाक्पारुष्यम्, अश्रूद्गमः, दीर्घनिःश्वासः, अविलक्षस्मितं, व्याजनिवृत्तिः, अत्यन्तानुकूल्यं, प्रसाधनाग्रहणमिति। तेषु
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥ २६१॥
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमप्यानतिमति।
न दृष्‍टेः शैथिल्यान्मिलनमिति चेतो दहति मां निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥ २६२॥
३. विकृतवीक्षणं यथा—(गास. ९२० वे.)
दावंतेण तुह मुहं भुमआ/भङ्गम्मि होंत—णव—सोहम्।
अकएण उवकअं अज्ज मण्णुणा मज्झ पसिअच्छि॥ २६३॥
(दर्शयता तव मुखं भ्रूभङ्गे भविष्यत्रवशोभम्।
अकृतेनोपकृतमद्य मन्युना मम, प्रसृताक्षि!॥)
स्फुरसि बाहुलते! किमनर्थका त्वमपि लोचन! वाम भव स्थिरम्।
तमहमागतमप्यपराधिनं न परिरब्धुमलं न च वीक्षितुम्॥ २६४॥
वाहिप्पंतीव-वहू-उल्लावं-णववरस्स ण हु देइ।
दावेइ अप्पणो हत्थं वारगआ सा णाहं॥ २६५॥
(व्याह्रियमाणैव वधूः उल्लापं नववरस्य न खलु ददाति।
दर्शयति आत्मनो हस्तं द्वारगता सा नाथम्॥)
← Previous (Ch. 29) Full Table of Contents Next (Ch. 31) →