अंगं कलंबकुसुमं व पुलइअं कह णु ढक्खिस्सं॥ ३३७॥
(अक्षिणी तावत्स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन् दृष्टे।
अङंग कदम्बकुसुममिव पुलकितं कथं नु स्थगयिष्ये॥)
८. देशोपाधिर्यथा—(गास. ९०१वे.)
जइआ पिओ ण दीसइ भणह हला कस्स कीरए माणो।
अह दिट्ठम्मि वि माणो ता तस्स पिअत्तणं कत्तो॥ ३३८॥
(यदा प्रियो न दृश्यते भणत सख्यः कस्य क्रियते मानः।
अथ दृष्टेऽपि मानस्तावत्तस्य प्रियत्वं कुतः॥)
९. कालोपाधिर्यथा—(गास. ७४५वे.)
कस्स ण सद्धा गरुअत्तणम्मि पइणा पसज्जमाणस्स।
जइ माणभंजणीओ ण होंति हेमंतराईओ॥ ३३९॥
(कस्य न श्रद्धा गुरुत्वे पत्या प्रसाद्यमानेन।
यदि मानभञ्जिन्यो न भवन्ति हेमन्तरात्रयः॥)
१०. पात्रोपाधिर्यथा—(गास. ७४३वे.)
भिउडीए पुलोइस्सं णिब्भच्छिस्सं परम्मुही होस्सं।
जं भणह तं करिस्सं सहिओ जइ तं ण पेक्खिस्सं॥ ३४०॥
(भ्रकुट्या प्रलोकयिष्यामि निर्भर्त्सयिष्यामि पराङ्मुखी भविष्यामि।
यद्भणथ तत्करिष्यामि सख्यो यदि तं न प्रेक्षिष्ये॥)
११. संज्ञोपधिर्यथा—(गाहाको. ४४०)
माणो माए दो अक्खराइ पिअसग्गमोत्ति बहुआइ।
बहुअं जंपइ थोएहि एत्थ तुमं च्चिअ पमाणं॥ ३४१॥
(मानो मातः द्वे अक्षरे, प्रियसङ्गम इति बहुकानि।
बहुकं जल्पति स्तोकैः अत्र त्वमेव प्रमाणम्॥)
(२०. मानभङ्गकारणानि —१२)
अथ मानभङ्गकारणानि। मदः, त्रासः, भयम्, ऋतूपगमः, उपवनविकासः, सुरभिवनवातः, कोकिलाद्यालापः, प्रभातं, प्रदोषश्चन्द्रोदयः, प्रवासारम्भः, विविक्तमिति। यथोच्यते—
त्रासो भयं मद ऋतूपगमः प्रदोषश्चन्द्रोदयः पिकरुतं रजनीविरामः।
हृद्यो मरुद् विकसितोपवनं विविक्तमाद्यः प्रवास इति माननिवर्हणानि॥ ३४२॥
१. तेषु मदो यथा—
घेप्पंति अप्पण च्चिअ कआवराहा वि कामिणीहि विअअमा।
किं इअ सिक्खावंतो अवरज्झइ वि पिअं करेइ महुमओ॥ ३४३॥