Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 30

Prakāśa 30: वैधर्म्यतो-मानप्रकाशः

प्रकाशः 30 • वैधर्म्यतो-मानप्रकाशः

Prakāśa 30 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1822 Verses • Citations: SP 30.1–1822 • 4 Lexicon Terms • Page 27 of 61 (Verses 30 shown)
किमिति कबरी यादृक्तादृग्दृशौ किमकज्जले न खलु लिखिताः पत्रावल्यः किमद्य कपोलयोः।
अयमयमयं किंच क्लाम्यत्यसंस्मरणेन ते शशिमुखि! सखीहस्तन्यस्तो विलासपरिच्छदः॥ १७४॥
कीस इमेसु बहुसो विसमप्पत्ततलिणंजणछविकलुसा।
दीहावंगेसु तुज्झ परिवड्‍ढंति/घोलंति णअणेसु बाहुप्पीडा॥ १७५॥
(कस्मात् अनयोः बहुशो विषमोद्वर्तनाञ्जनच्छविकलुषाः।
दीर्घापाङ्गयोस्तव परिवर्धन्ते नयनयोः बाष्पोत्पीडाः॥)
कीस मलिआवअंसं वअण्णणीसासपंडुराहरराअं।
वअणं वहसि किसोअरि कर—संकामिअ—कओल—पत्तालेक्खं॥ १७६॥
(कस्माद् मलिनावतंस बहलनिःश्वासपाण्डुराधररागम्।
वदनं वहसि कृशोदरि! करसङ्क्रामितकपोलपत्रालेख्यम्॥)
तणुअं पि अणिव्वडिअं पुणो पुणो वेविराहरोट्‌ठिपिसुणिअं।
वअणब्भंतरभरिअं हिअअट्ठिअं किं तुहं पसम्मइ वअणं॥ १७७॥
(तनुकमपि अनिर्वर्तितं पुनः पुनर्वेपनशीलाधरोष्‍ठपिशुनितम्।
वदनाभ्यन्तरभृतं हृदयस्थितं किं तव प्रशाम्यति वचनम्॥)
कान्त्या पाटलया किमद्य सकलाक्रान्ता मुखेन्दोः प्रभा किञ्चोष्णैरधरः सरोरुहमुखि! श्वासानिलैः शोष्यते।
इत्युक्तोऽपि पुनः प्रकोपपरया मौनेन निर्भर्त्सितो मानिन्याः सुहृदेव बाष्पपयसा गच्छन् धृतो वल्लभः॥ १७८॥
श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि! किममी बाष्पाम्भसो बिन्दवः।
किञ्चाकुञ्चितकण्ठरोधकुटिलाः कर्णामृतस्यन्दिनो हुङ्काराः कलपञ्चमप्रणयिनस्त्रुट्‍यन्ति निर्यान्ति च॥ १७९॥
प्रियाप्रत्यानयनाय प्रियस्य १भुजङ्गभङ्गिभाषितानि चित्रचाटूक्तयः। ताश्च आत्मनो दोषाभ्युपगमे दोषानभ्युपगमे उभयाभावे च, परस्परदोषारोपणे दोषानारोपणे उभयाभावे च। तत्र—
१. दोषाभ्युपगमे यथा—(रत्‍ना.३.१४)
आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि! मूर्ध्‍ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमा यदिपरं करुणा मयि स्यात्॥ १८०॥
NOTES pg=1352! १. वक्रता हि भुजङ्गस्य भङ्गी। वक्रभाषितमतो वक्रोक्तिः।
← Previous (Ch. 29) Full Table of Contents Next (Ch. 31) →