यः सखि मानानुशयोदयस्तेन भवतु पापेन।
॰ ॰ ॰ ती भवितुं कलप्राणैः क्रीणानि भैषज्यम्॥ ३७६॥
११. मानयोग्या यथा—(काव्याद. २.२४६)
मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥ ३७७॥
१२. मानानुयोगो यथा—(गास. ८९८वे.)
अल्लिअइ दिट्ठिणिब्भच्छिओ वि विहुओ वि लग्गए सिअए।
पहओ वि चुम्बइ बला अलज्जए कह णु कुप्पिस्सं॥ ३७८॥
(आलीयते दृष्टिनिर्भर्त्सितोऽपि विधुतोऽपि लगति सिचये।
प्रहतोऽपि चुम्बति बलादलज्जकाय कथं नु कोपिष्यामि॥)
(२३. मानभङ्गोपाधयः —१२)
अथ मानभङ्गोपाधयः। ते च निद्रा, मदः, त्रासः, भयम्, अज्ञानम्, प्रसङ्गः, प्रमादः, देशः, कालः, कार्यम्, पात्रम्, सुप्तमित्यादयो भवन्ति। तेषु—
१. निद्रोपधानं यथा—
प्रणयिषु पुरा मिथ्यामानी न चाटुशतैरपि प्रणयमभजन्यस्सौभाग्यग्रहात्तरुणीजनः।
स्वयमनुनये हूणस्तेषामिहानुशयादयं नयति विवशो निद्रां दूत्ये मृषाप्रणयामपि॥ ३७९॥
२. मदोपधानं यथा—
अगहिअदइआणुणओ पच्छा अणुणेइ अणुणसआविसंवलिओ।
कइअवणिरूविअमओ वि कइअवमअणउम्मूलिओ जुवजइजणो॥ ३८०॥
(अगृहीतदयितानुनयः पश्चात् अनुनयति अनुशयविसंवलितः।
कैतव—निरूपित—मदो निष्कैतवमदनोन्मूलितो युवतिजनः॥)
३. त्रासोपधानं यथा—(किराता. ८.४६)
भयादिवाश्लिष्य रुषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी।
अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः॥ ३८१॥
४. भयोपधानं यथा—(किराता. ८.४८)
करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा।
सखीषु निर्वाच्यमधार्ष्टयदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी॥ ३८२॥
४. अज्ञानोपधानं यथा—(अमरु. ७५)
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमद्रुतम्।
असहनसखीश्रोत्रप्राप्तिप्रमादससम्भ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः॥ ३८३॥
६. प्रसङ्गोपधानं यथा—