यथा वा—(गास. ४.७५)
तेण ण मरामि मण्णूहिँ पूरिआ अज्ज, जेण, रे सुहअ।
तग्गअमणा मरंती मा तुज्झ पुणो वि लग्गिस्सं॥ ८४॥
(तेन न म्रिये मन्युभिः पूरिताद्य येन रे सुभग।
तद्गतमना म्रियमाणा मा तव पुनरपि लगिष्यामि॥)
२२. कोपातिरेकश्च . . . यथा—(शाकु. ५.२३)
मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयिनि (यम) प्रतिपद्यमाने।
भेदाद् भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य॥ ८५॥
यथा वा—
इअ सावराह-पिअअम-दंसण-पसरंत-रोस-पज्जलिओ।
सोहइ विअंभिअ-संरंभ-विब्भमो माणिणीसत्थो॥ ८६॥
(इति सापराधप्रियतमदर्शनप्रसरद्रोषप्रज्वलितः।
शोभते विजृम्भितसंरम्भविभ्रमो मानिनीसार्थः॥)
२३. तदेवानुनयासाध्यमुग्रता यथा—
दइअगभिअव्वणवदिअमुहलिअभुआइआ कावि।
रोसविअसंतविसेसपत्तलं एसिअसुभइ॥ ८७॥
यथा वा—(गास. २.६०)
अच्छोडिअवत्थद्धंतपत्थिए मंथरं तुमं वच्च।
चिंतेसि थणहराआसिअस्स मज्झस्स वि ण भंगं॥ ८८॥
(बलादाकुष्टवस्त्रार्धान्तप्रस्थिते मन्थरं त्वं व्रज।
चिन्तयसि स्तनभरायासितस्य मध्यस्यापि न भङ्गम्॥)
२४. अपराधतः प्रियाभिभर्त्सनताडनादिकरणं प्रणयकलहः यथा—(गास. ९४६वे.)
हुं णिल्लज्ज समोसर तं चिअ अणुणेसु जाए दे वअणे।
पाअंगुट्ठालत्तअरसेण तिलअं विणिम्मविअं॥ ८९॥
(हुं निर्जज्ज समपसर तामेवानुनय यया ते वदने।
पादाङ्गुष्ठालक्तकरसेन तिलकं विनिर्मितम्॥)
यथा वा—
पादे मूर्धनि ताम्रतामुपगते कर्णोत्पले चूर्णिते छिन्ने हारलतागुणे करतले सम्पातजातव्रणे।
अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः चेतसा वाञ्छन्ती मुहुरेणशाबनयना पर्याकुलं रोदिति॥ ९०॥
(३. मानविशेषाः —२४)