Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 30

Prakāśa 30: वैधर्म्यतो-मानप्रकाशः

प्रकाशः 30 • वैधर्म्यतो-मानप्रकाशः

Prakāśa 30 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1822 Verses • Citations: SP 30.1–1822 • 4 Lexicon Terms • Page 29 of 61 (Verses 30 shown)
ण अ सहि अणुणअभणिअं ण देसि पसरं ण होसि मुक्‍कामरिसा।
कह आ एक्‍करसं चिअ दूरविंसंवइअ णिट्ठुरं तुह हिअअं॥ १८८॥
(न च सखि! अनुनयभणितं न ददासि प्रसरं न भवसि मुक्‍तामर्षा।
कथं वा एकरसमेव दूरविसंवदितनिष्‍ठुरं तव हृदयम्॥)
वीसंभणिव्विसंके विच्छद्‌धिअकव्‍अवपं आरंमिजणे।
आसंकिअं पहिअअंलाउज्जंतो अकहणलग्गउअअसो॥ १८९॥
जाव ण लक्खेइ परो जाव ण लब्भइ पिअम्मि परसंघो।
ताव अकओपआरा किरंति कआ हिअअबहुमआ॥ १९०॥
(यावन्न लक्षयति परः, यावन्न लभ्यते प्रिये प प(रा)सङ्गः।
तावत् कृतोपकारा कीर्त्तयति कृता हृदयबहुमता॥)
अवहारेऊण चिरं भणसु तुमं चिअ अमुक्करोसा वि फुडं।
किं अगणेऊण इमं होज्जा तुमम्मि मज्झपमाअक्खलिअं॥ १९१॥
(अवधार्य चिरं भण त्वमेव अमुक्‍तरोषापि स्फुटम्।
किमगणयित्वा इदं भविष्यति त्वयि प्रसादस्खलितम्॥)
अप्ररूढविस्रम्भायामपि प्रकृतिस्थः षोढैव प्रकृतिस्थादिभेदात्। तेषु—
क्षणविकसितो दीर्घश्वासैः क्षणं मुकुलीकृतः कृतकहसितैर्व्यक्तो मौनप्रतिक्रियया क्षणम्। क्षणविघटितो नर्मालापैरिति क्रमसूचितः स्थगितविषयो मुग्धे मानः कदर्थयतीव माम्॥१९२॥
'कपोले पत्राली करतलनिरोधेन'॥१९३॥ (पृ.८७०) इत्यादि।
कृशप्रया रात्रिः कृशतनु शनैर्येन विनमन् प्रदीपोऽयं निद्रावशमुपघतो घूर्णत इव। प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो कुचप्रत्यासत्त्या हृदयमपि ते चण्डि! कठिनम्॥१९४॥१
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमप्यानतिमति। न दृष्‍टे शौथिल्यान्मिलनमिति चेतो दहति मां निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥१९५॥
वरं भ्रूभङ्गस्ते प्रकटितगुरुक्रोधविभवा वरं सोपालम्भाः प्रणयविमुखा गद्‌गदगिरः। वरं मानाटोपप्रसभजनितोऽनादरविधि— र्न गूढान्तःकोपा कठिनहृदये संवृतिरियम्॥१९६॥
← Previous (Ch. 29) Full Table of Contents Next (Ch. 31) →