यथा वा—(गास. १.५३)
पेम्मस्स विरोहिअसंदिट्ठिअस्स पचक्खदिट्ठविलअस्स।
हिअअस्स व ताविअसंअलस्स विरसो रसो होई॥ ७०॥
(प्रेम्णः विरोधितसंदृष्टस्य प्रत्यक्षदृष्टविलयस्य।
हृदयस्येव तापितसंशीतलस्य विरसो रसो भवति॥)
१५. विसूरणं यथा—(गास. ९३०वे.)
हंहो किंव ण दिट्ठं हला मए जीविअं धरंतीए।
सो मं अणुणेइ पिओ अहं वि अणुणज्जिमि हआसा॥ ७१॥
(अहो किं वा न दृष्टं सखि मया जीवितं धरन्त्या।
स मामनुनयति प्रियः, अहमपि अनुनेष्यामि हताशा॥)
यथा वा—
पुरासीदस्माकं तनुरियमभिन्नैव सततं ततो नु त्वं प्रेयान् वयमपि हताशाः प्रियतमाः।
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम्॥ ७२॥
१६. प्रियावमानाद् विलक्षादिभ्यो लज्जा वैवक्ष्यं यथा—
ण पिअइहज्झपइ ॰ ॰ ॰ ॰ ॰ ॰।
समुहपडिवक्ख—विलिआतंमेतुम्महइ वाअडच्चिअ मरिसं॥ ७३॥
यथा वा—(कुसं. ३.७५)
शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समीक्ष्य ललितं वपुरात्मनश्च।
सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथञ्चित्॥ ७४॥
१७. विप्रियस्य पुनः पुनः स्मरणमनुशयः, यथा— (द्र. ३५.३० पृ. १५८७)
तक्खण-जणिअ-परिपसं-भरिअ-विरोध-संग-जुत्ताणुसअं तीए।
गरुअंणिसंमलगओ णिअत्तं पिअमरिसे च्चिअ हिअअं॥ ७५॥
{तत्क्षणजनितपरिप्रश्नसंस्मृतविरोधसङ्गयुक्तानुशयं तस्याः।
गुरुअं श्यामलाङ्गया निवृत्तं प्रियामर्ष इव हृदयम्॥}
यथा वा—
अमुणिक्खणलद्धसुहे तक्खणसंभरिअमंतुदूमिअविहलो।
हिअए मा णवरं ण चिरं ण चिरेण पणअगरुओ पस्स मइ रोसो॥ ७६॥
(अज्ञातक्षणलब्धसुखे तत्क्षणसंस्मृतमन्युदूनविह्वलः।
हृदये मा केवलं न चिरं न चिरेण प्रणयगुरुकः पश्य मयि रोषः॥)
१८. विप्रियोपरागाच्चित्ताशुद्धिः कालुष्यं यथा—