पडिभाइ जं ण तुज्झ वि मम पि किं तेण तेण णामेण॥ ३०३॥
(एवमेव मम नाम भण भण तावत् सुभग कस्मात् व्रीडितोऽसि।
प्रतिभाति यन्न तवापि ममापि किं तेन नाम्ना॥)
८. तदेव प्रतिषेधमुखेन यथा—
तुज्झ वअणइरच्छअ किं इमिणा विमक्खरेण णामेण।
जण्ण ऊणाऊण अ अह्यसु भण्णं तए णांम॥ ३०४॥
(तव वदनचिरस्थितेन किमनेन विषमाक्षरेण नाम्ना।
येन पुनःपुनश्च अस्मासु भणितं त्वया नाम॥)
९. प्रतिषेधविधिमुखेन यथा—
होउ ण सुअं चिअ मए णेअ तुमे सुहअ किं चि वि पउत्तं।
एत्ताहे संभरिऊण भणसु रे मज्झ जं णामं॥ ३०५॥
(भवतु न श्रुतमेव मया नैव त्वया सुभग किञ्चिदपि प्रवृत्तम्।
इदानीं संस्मृत्य भण रे मम यन्नाम॥)
१०. गतिनिमित्तको वृत्तानुषङ्गतो यथा—(गास. १.३२)
अह संभाविअमग्गो सुहअ तुए जेव्व णवर णिव्वूढो।
एण्हिं हिअए अण्णं अण्णं वाआएँ लोअस्स॥ ३०६॥
(अथ सम्भावितमार्गः सुभग! त्वयैव केवलं निर्व्यूढः।
इदानीं हृदये अन्यदन्यद् वाचि लोकस्य॥)
११. वर्तमानानुषङ्गतो यथा—
एत्थ अहं चेअ पिआ ण अ सा मा लज्ज भणसु वीसत्थो।
वेसो सुहअ पुरओ ण णिव्वरिज्जंति सब्भावा॥ ३०७॥
(अत्राहमेव प्रिया न च सा मा लज्जस्व भण विस्त्रब्धः।
द्वेष्यस्य सुभग पुरतो न कथ्यन्ते सद्भावाः॥)
१२. भविष्यदनुषङ्गतो यथा—(गास. ९०६वे.)
सुहअ मुहुत्तं सुप्पउ जं जं पहिभाइ तं भणिस्सिहिसी।
अज्ज ण पेच्छंति तुहं णिद्दागरुआइ अच्छीइ॥ ३०८॥
(सुभग! मुहूर्तं सुप्यतां, यद्यत् प्रतिभाति तद् भणिष्यसि।
अद्य न प्रेक्षेते तव निद्रगुरुके अक्षिणी॥)
(१७. मनसुखानुभावाः—६)
अथ मानसुखानुभावाः। तत्र माने बहुमानादिसम्पद्योगादयं बहुमतः; जिघृक्षितोऽनुबद्धः, शिक्षितः, उपद्रुतः, विद्रुतश्चेति षोढा सम्भवति। तेषु