तं चिअ अ सोहइ माणो समुहं जाव पणअं ण खंडेति पिआ।
खलिओ अ पणअपसरो पच्छा माणवइआ णिअंतअओ॥ ७७॥
(तावदेव च शोभते मानः सम्मुखं यावत् प्रणयं न खण्डयति प्रिया।
स्खलितश्च णयप्रसरः पश्चात् मानवत्या नियन्त्रणकः॥)
यथा वा—
वरं भ्रूभङ्गस्ते प्रकटितगुरुक्रोधविभवाः वरं सोपालम्भाः प्रणयविमुखा गद्गदगिरः।
वरं मानारोपप्रसभजनितोऽनादरविधि— र्निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥ ७८॥
१९. प्रियापराधजधैर्यध्वंसः क्षोभो यथा—
भङ्गं भ्रुवोः श्वसितमानदमश्रु चक्षुः खेदं मनस्तनुलता च मलीमसत्वम्।
नैवावगाहितुमलं सुतनोस्तदेष मन्येऽनुपायपरवत्त्वमुपैति कोपः॥ ७९॥
यथा वा—
धीरं धरिअं पि गअं दूरवलग्गो वि पिअ णिओ मअराओ।
लहइ अ पेम्मंधंमं किलम्मइ पअ/डइ वेल/वविसे हिअअं॥ ८०॥
(धैर्यं धृतमपि गतं दूरावलग्नोऽपि प्रिय! निजो मदरागः।
लभते च प्रेमान्ध्यं क्लाम्यति पतति वञ्चनाविषे हृदयम्॥)
२०. व्यलीकानुसन्धानात् क्रोधोद्भेद आवेगो यथा—
तोधा लज्जापणआ भणइ विअक्खणविअण्णदिट्ठिओ।
हासविसेस-मंतुगरिइकअ-कंठध्द-परिक्खलंत-विसमुल्लावा॥ ८१॥
(ततः सा लज्जाप्रणया भणति विचक्षणविषण्णद्ृष्टया।
हासविशेषमन्युगुरूकृतकण्ठार्धपरिस्खलद्विषमोल्लापा॥)
यथा वा—(गास. ९१४ वे.)
उम्मूलंती व हिअअं अणुणिज्जंतीओ माणवत्तीओ।
सम्ह/भरिअमण्णुणिब्भरबाहभरोद्भूलिअ/भरोरुम्भिअमुहीओ॥ ८२॥
(उन्मूलयन्तीव हृदयं अनुनीयमाना मानवत्यः।
संस्मृत—मन्यु—निर्भर—बाष्प—भरोपरुद्ध—मुख्यः॥)
२१. कृतापराधेषु क्रोधाप्रशान्तिरमर्षो यथा—(गास. ४.७६)
अवरज्झसु एत्ताहे वीसत्थच्चिअ जणम्मि णिफल-मउए।
काउं णिक्किव दुक्खं पत्तिअ सहिअं उच्च एक्कस्स-च्चिअ हिअअं॥ ८३॥
(अपराध्यस्वेदानीं विश्वस्त एव जने निष्फलमृदुके।
कृत्वा निष्कृप दुःखं प्रतीहि सहितमुच्चैरेकस्यैव हृदयम्॥)