४. उपदेशालम्बनो यथा—
(अलिअं वंचअ—) वअणं पिज्जइ हालाहलविसमसज्जं।
जं हिअअं अबलंबधिरं/अवलंबिअ धीरं दिज्जसि माणस्स एत्ताहे॥ १३३॥
{(अलीकं वञ्चक) वचनं पीयते हालाहलं विषमसह्यम्।
यद् हृदय! अवलम्ब्य धैर्यं दीयसे मानायेदानीम्॥}
५. कुतूहलालम्बनो यथा—
भ्रूभेदे रचितस्तदीक्षणपरे निस्तर्जिते लोचने गात्रं प्रावृतमंशुकेन सकलं वृत्तिर्गिरां संयता।
चेतः कौतुकविह्वलं भ्रमति मे तत् केन वा द्ृश्यते गत्वा दूति! तमानय प्रियतमं मानः कृतोऽयं मया॥ १३४॥
६. कैतवालम्बनो यथा—
द्रष्टव्यादपसारिते च नयने रुद्धे च बाष्पाम्भसा कान्तं च स्फुरणेन गण्डयुगलं जातं च हर्षोल्लसत्।
औत्सुक्याद् विनिवर्तितं च हृदयं मग्नं च चिन्तार्णवे मानश्चाह्रियते प्रिये दयितया प्रेम्णा न च क्षम्यते॥ १३५॥
७. कारणालम्बनो यथा—
अव्वोकज्जेण विणाअद्धकपअत्तपाहराहिल्लो।
उच्चडतापरिओसो रोसो वि ण होइ वेताला॥ १३६॥
८. प्रतापालम्बनो यथा—
रस&सिअज्झअ&कअधिक्कारणा&जणिअ&णिच्च&कोवाणा/कोवाए।
पुत्तअ! वेआरिज्जसि अलिअपदुहणए सोण्हाए॥ १३७॥
(रसिकाध्याय—कृताधिकारणा—जनितनित्यकोपनया।
पुत्रक! व्यापार्यसे अलीकपृथुस्तनया स्नुषया॥)
NOTES pg=1344! १. मुग्धः = बद्धः रा.जो.
(७. विषयकर्माणि —६)
अथ विषयाश्रयप्रकीर्णकर्माणि। तानि प्रत्येकं षोढा। तेषु — १. मानवैकृतानि २. मानवितर्काः ३. मानभङ्गोपायाः ४. मानपरिप्रश्नाः ५. चित्रचाटूक्तयः ६. प्रियोपालम्भाश्चेति विषयस्यापराधकर्तुः कर्माणि। तेषु —
(१. मानवैकृतानि)
मनोद्ृग्वक्त्रवाग्वपुश्चेष्टासु वैलक्ष्याभ्युत्पत्त्यादयो मानवैकृतानि। तत्र मनसि वैलक्ष्यमनुशयश्च, द्ृशि ज्ञानान्यथात्वं (भ्रमणं) च वक्त्रे छायाभ्रंश उत्कण्ठावेशश्च, वाचि वैक्लव्यं प्रविलापश्च, वपुषि सन्तापो विषयव्यावृत्तिश्च, चेष्टायामारम्भस्तदभिशङ्का चेति। तत्र —
१. मनसि वैलक्ष्यं यथा—
पणअक्खलणविलक्खं तस्स ॰ ॰ ॰।
॰ ॰ ॰ किं कए व्व पिअ मुहं किलंइ हिअअं॥ १३८॥
(प्रणयस्खलनविलक्षं तस्य ॰ ॰ ॰।
॰ ॰ ॰ किं कृत इव प्रिय मुखं, क्लाम्यति हृदयम्॥)
२. तत्रैवानुशयो यथा—